पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दृष्टान्तकलिकाशतकम् । तटस्थैः स्थापिताश्चेतो विशन्ति गुणिनां गुणाः । उत्कोचितानां पद्मानां गन्धो वायुभिराहृतः ।। ६२! निजाशयवदाभाति पुंसां चित्ते पराशयः । प्रतिमा मुखचन्द्राभे कृपाणे याति दीर्घताम् ॥ ६३॥ अधमं बाधते भूयो दुःखवेगो न तूत्तमम् । पादद्वयं ब्रजत्याशु शीतस्पर्शो न चक्षुषी ॥ ६४ ॥ गुणवान्सुचिरस्थायी न देवोऽप्यभिजायते। तिष्ठत्येकां निशां चन्द्रः श्रीमान्संपूर्णमण्डलः ।। ६५ ।। यत एवागतो दोषस्तत एव निवर्तते। अग्निदग्धस्य विस्फोटशान्तिः स्यादग्निना ध्रुवम् ॥ ६६॥ स्वधियो निश्चयो नास्ति यस्य संभ्रमते स्वयम् । प्रवातवालपत्रस्थः पटस्तत्र निदर्शनम् ॥ ६७ ॥ कथाप्रबन्धे वन्ध्येऽपि कश्चिदेवानुरञ्जते । प्रायश्वासादयत्यन्तः श्वसन्नि...सकैकसम्() ॥ ६८ ॥ बुद्धिमत्ताभिमानः को भवेत्प्रज्ञोपजीविनाम् । अन्यदीयैरलंकारैर्नाहंकारो विभूषणे ॥ ६९ ।। उत्तमोऽप्यधमस्य स्याद्याञ्चानम्रकरः क्वचित् । कौस्तुभादीनि रत्नानि ययाचे हरिरम्बुधिम् ॥ ७० ॥ प्रयत्ने समके केचिदेव स्युः फलभागिनः । क्षीरोदमथनाद्देवैरमृतं प्रापि नासुरैः ।। ७१ ॥ गुणैः T: पूजा भवेत्पुंसां नैकस्माज्जायते कुलात् । चूडारत्नं शशी शंभोर्यानमुच्चैःश्रवा हरेः ॥ ७२ ॥ भोगः परोपतापेन पुंसां दुःखाय न स्थिरः। पानमप्यसृजः क्षिप्रं स्वपीडायै जलौकसाम् ॥ ७३ ॥