पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दृष्टान्तकलिकाशतकम् । आगच्छदुत्सवो भाति यथैव न तथा गतः । हिमांशोरुदयः सायं चकास्ति न तथोषसि ॥ ८६ ॥ मनस्विनो न मान्यन्ते परतः प्राप्य जीवनम् । बलिमुग्भ्यो न काकेभ्यः स्पृहयन्ति हि कोकिलाः ।। ८७ ।। संतोषक्षतये पुंसामाकस्मिकधनागमः । सरसा सेतुभेदाय वर्षोंधः सूचनस्थितः ॥ ८८॥ जीयते भूगतोऽप्यात्मा कालेनात्मापि स्वर्गतः । भवेत्स्मशानमुद्यानमुद्यानं च स्मशानभम् ॥ ८९ ॥ उच्चशेखरगं वस्तु शुभं स्यात्सुखकारणम् । उपशामयते बाधं यथैवामृतसंस्कृतम् ॥ ९० ॥ संतुष्यत्युत्तमः स्तुत्या धनेन महताधमः । प्रसीदन्ति जपैर्देवा बलिभिर्भूतविग्रहाः ॥ ९१ ।। स्वजातीयविधाताय माहात्म्यं दृश्यते नृणाम् । श्येनो विहङ्गमानेव हिनस्ति न भुजङ्गमान् ॥ ९२ ।। गुरुं प्रयोजनोदेशादर्चयन्ति न भक्तितः । दुग्धदात्रीति गौर्गेहे पोष्यते न तु धर्मतः ॥ ९३ ॥ महतां तादृशं तेजो यत्र शाम्यन्त्यनौजसः । अस्तं यान्ति प्रकाशेन तारका हि विवस्वतः ।। ९४ ॥ दाता दानस्यान्तरा स्यात्पृथिव्यां गेहे गेहे याचकानां समूहाः । चिन्तारत्नस्यास्ति सत्त्वे विवादो मार्गे मार्गे रेणवः सन्त्यसंख्याः ॥१५॥ चारुता अपवशेन पदार्थे धैर्येण तदनु वादिगुणत्वात(?) । वेणुगो भवति मञ्जुरसौ.""यन्त्रगो हि सुखदः कृतशब्दः(१) ॥९६|| नराः संस्कारार्हा जगति किल केचित्सुकृतिनः समानायां जात्यामपि वयसि सत्यां परिधयः