पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । शोभते विदुषां मध्ये नैव निर्गुणमानसः । अन्तरे तमसां दीपः शोभते नार्कतेजसाम् ।। ५० ।। युक्त्या परोक्षं बाधेत विपक्षक्षपणक्षमः । शोषयत्यचिरेणैव प्रान्तरस्थमलं पयः ।। ५१ ।। दुर्गदेशं प्रविष्टो हि शूरोऽभ्येति पराभवम् । गाढपङ्कनिमग्नाङ्गो मातङ्गोऽप्यवसीदति ।। ५२ ।। नयेनाङ्कुरितं शौर्यं जयाय न तु केवलम् । अन्ययुक्तं विषं भुक्तं पथ्यं स्यादन्यथा मृतिः ॥ ५३ ।। मृदुभिर्बहुभिः शूरः पुंभिरेको न बाध्यते । कपोतपोतकैरेकः श्येनो जातु न बाध्यते ॥ ५४ ।। येनात्मा पण्यतां नीतः स एवान्विष्यते जनैः । हस्ती हेमसहस्रेण क्रीयते न मृगाधिपः ।। ५५ ।। गुणो गुणान्तरापेक्षी स्वरूपख्यातिहेतवे । स्वभावबाल्यं लावण्यं तारुण्येन मनोहरम् ॥ ५६ ॥ सुलभं वस्तु सर्वस्य न यात्यादरणीयताम् । स्वदारपरिहारेण परदारार्थिनो जनाः ॥ ५७ ।। विकृतं निजमात्मानं वस्त्रैः संस्कुरुते जडः । परेभ्यः स्वशरीरस्य के वा भूषां वितन्वते ॥ ५८ ॥ क्षणक्षयिणि सापाये भोगे रञ्जन्ति नोत्तमाः । संत्यज्याम्भोजकिञ्जल्कं न प्रार्थयति शैवलम् ॥ ५९ ॥ असंभवगुणस्तुत्या जायते खात्मनस्त्रपा । कर्णिकारं सुगन्धीति वदन्केनोपहस्यते ॥ ६०॥ धनाशया खलीकारः कस्य नाम न जायते । दूरादामिषलोभेन बध्यते खेचरः खगः ॥ ६१ ।।