पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८१ दृष्टान्तकलिकाशतकम् । आकरः कारणं जन्तोर्दौजन्यस्य न जायते । कालकूटः सुधासिन्धोः प्राणिनां प्राणहारकः ।। ३८ ॥ गुणदोषाववाप्येते पुंसां संशीलनाद्बुधैः । लेभे पीयूषगरले मन्थनादम्बुधेः सुरैः ।। ३९ ।। स्वभावं न जहात्येव साधुरापद्गतोऽपि सन् ! कर्पूरं पावकस्पृष्टं सौरभं लभतेतराम् ॥ ४० ॥ न व्याप्तिरेषा गुणिनो गुणवाङ्जायते ध्रुवम् । चन्दनोऽनलसंदग्धो न भस्म सुरभि क्वचित् ॥ ४१ ।। अप्यापत्समयः साधोः प्रयाति श्लाघनीयताम् । विधोर्विधुंतुदास्कन्दविपत्कालोऽपि सुन्दरः ॥ ४२ ॥ विना परीक्षां नो तत्त्वं प्रसिद्धं जायते सतः । स्वधर्मबन्धान्नो शुद्धिर्जायते कर्षणं विना ॥ ४३ ।। प्राप्य वित्तं जडास्तूर्णं निर्वृतिं यान्ति नान्यथा । तोयमासाद्य गर्जन्ति न रिक्ताः स्तनयिलयः ॥ ४४ ॥ कार्यापेक्षो जनः प्रायः प्रीतिमाविष्करोत्यलम् । लोभार्थी शौण्डिकः शष्पैर्मेष पुष्णाति पेशलैः ॥ ४५ ॥ दुर्जनो जीयते युक्त्या निग्रहेण न धीमता । निपात्यते महावृक्षस्तत्समीपक्षितिक्षयात् ॥ ४६॥ सुखदुःखे समे स्यातां जन्तूनां क्लेशहेतुके । मूर्ध्नि स्थिताना केशानां भवेतां स्नेहछेदने ।। ४७ ॥ दुष्टदुर्जनदौरात्म्यैः सज्जने रज्यते जनः । आरुह्य पर्वतं पान्थः सानौ निर्वृतिमेत्यलम् ।। ४८ ॥ स्वभावसुन्दरं वस्तु न संस्कारमपेक्षते । मुक्तारत्नस्य शाणाश्मघर्षणं नोपयुज्यते ॥४९॥ ६ चतुर्दशगु०