पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सहजोऽपि गुणः पुंसां साधुवादेन वर्धते । कामं सुरसलेपेन कान्ति वहति काञ्चनम् ।। २६ ।। निन्दां यः कुरुते साधोस्तथा स्वं दूषयत्यसौ ! खे भूर्ति यः क्षिपेदुञ्चैर्मूर्ध्नि तस्यैव सा पतेत् ॥ २७ ॥ स्वभावं नैव मुञ्चन्ति सन्तः संसर्गतोऽसताम् । न त्यजन्ति रुतं मङ्क्षु काकसंपर्कतः पिकाः ।। २८ ! संपत्तौ कर्कशं चित्रं खलस्यापदि कोमलम् । शीतलं कठिनं प्रायस्तप्तं मृदु भवत्ययः ।। २२ । प्रायः प्रकुप्यतितरां प्रीत्यैव प्रखरो जनः । नयनं स्नेहसंपर्कात्कालुप्यं समुपैत्यलम् ॥ ३० ॥ शुभं बाप्यशुभं कर्म फलकालमयेक्षते । शरद्येव फलत्याशु शालिर्न सुरभौ क्वचित् ॥ ३१ ॥ भोगेच्छा नोपभोगेन भोगिनां जातु शाम्यति । लवणेनान्तरालेन तृष्णा प्रत्युपजायते ॥ ३२ ॥ दुर्लभोऽप्युत्तमः प्रायः स्वजातीयेन लभ्यते । कर्णकोटरगं वारि वारिणैवावकृप्यते ॥ ३३ ॥ जन्तोनिरुपभोगस्य दृश्यते भुवि रूक्षिता। वाताशिनो द्विजिह्रत्वं विहितं पश्य वेधसा ॥ ३४ ॥ ऊर्जितं सज्जनं दृष्ट्वा द्वेष्टि नीचः पुनः पुनः । कवलीकुरुते स्वस्थं विधुं दिवि विधुंतुदः ॥ ३५ ॥ न लभन्ते विनोद्योगं जन्तवः संपदां पदम् । सुराः क्षीरोदविक्षोभमनुभूयामृतं पपुः ।। ३६ ॥ संयतं कोमलं चित्तं साधोरापदि कर्कशम् । सुकुमारं मधौ पत्रं तरोः स्यात्कठिन शुचौ ॥ ३७ ।।