पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला अहोऽनुकम्पा वसतो जगत्यां महीपतिर्वीरसुदर्शनोऽसौ । योगीश्वरोऽयं समधीतविद्यो ददाति वित्तं भुवि याचकेभ्यः ॥५२॥ यस्य सभायां पण्डिताः- प्रमेयसिद्धान्तपदार्थवार्ता विचारयन्तः कथयन्ति सारम् । समस्तलोकेष्वतिदुर्लभं च ते पण्डिता यस्य गृहे वसन्ति ।। ५३ ॥ कवयश्च--- सुधास्यन्दसंदोहसंदेहकारि कचित्काव्यभव्याक्षरं नर्तयन्ति । क्वचिद्गीतसंगीतविद्यानवद्याः क्वचिद्दण्डनीतिं विनीता वदन्ति ॥५४॥ क्वचिल्लोलरोलम्बमाताकुलाङ्गान्मतङ्गानहो देहि देहीति वाचः । क्वचिद्वाजिराजीरिति स्पष्टवाचां विवर्तुं मुदा सर्वदा नर्तयन्ति ।।५५|| ज्योतिषिकाश्च- भविष्यदर्थं सततं ब्रुवन्ति मध्येसभं वीरसुदर्शनस्य । ज्योतिर्विदः सर्वगुणानुपेताः स्ववृत्तिमन्तो नृपतेः प्रसादात् ।। ५६॥ वैद्याश्च- अधीतविद्या निपुणाः सदैव दृष्ट्या वदन्ति प्रतिपन्नरोगान् । निदानतो रोगपरीक्षया च चिकित्सया सर्वजनोपचारान् ।। ५७ ॥ मल्लाश्च

-मनागनायासरसेन येन चूर्णीकृतः प्रस्तर एव सद्यः । स तादृशो मल्लवरः सभायां विराजते वीरसुदर्शनस्य ।। ५८ ॥ नटाश्च----- संमोहयन्तो निजनर्तनेन समस्तलोकानपि पण्डितांश्च । नानाविधं वेषधरं वहन्ति रसेषु सर्वेषु विपश्चितश्च ॥ ५९ ।।