पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सुदर्शनचम्पूकाव्यम् । शैलूषकाच- वंशं समारोहति निर्विशङ्कमधः पतत्यूर्ध्वत एव सद्यः । तथैव तिष्ठत्यपि वंशमूले कुत्रापि नाघातकथाप्रसङ्गः ॥ ६ ॥ नटी च---- तथा तथा गायति चन्द्रकान्तमुखं वहन्ती मधुरखरेण । यथा यथा श्रोत्रगतेन सद्यो मोहं समायान्ति महर्षयोऽपि ॥६१।। बन्दिनच---- प्रभातकाले सततं पठन्ति सत्काव्यमुच्चैःस्वरमाश्रिताश्च । सद्वन्दिनो वीरजनस्य चित्तं युद्धाय बद्धादरतां नयन्ति ।। ६२ ॥ समस्तथरणीपालप्रसिद्धवरकार्मुकः । प्रतिष्ठापूरकः पूरैः पूरयन्निव सर्वतः ।। ६३ ।। एकदा स एव सुदर्शनो महाराजो मृगयाव्याजेन वैरिग्रामासन्नो बभूव ? श्रीमद्वीरसुदर्शनं सुविदितं युद्धाय बद्धादरं मत्वा दारुणसानुमाश्रितवती ब्यालोलचैलाञ्चला। नेत्रोत्पन्ननवीननीरकणिकाव्याजेन नम्रानना दत्ते वैरिबिलासिनी प्रतिदिनं मुक्ताफलानां तुलाः ॥ ६४ ॥ ततोऽतिदूरं यमुनानिकुञ्जमाखेटकार्थं नृपतिः प्रतस्थे । विलासिनीभिर्वरसैनिकैश्च करेणुकारोहणतत्पराभिः ॥ ६५ ।। मातङ्गमालोपरिसंस्थितेन ध्वजेन चामीकरचिह्नितेन । वाताभिघातैरतिसुन्दरेण स शोभमानो मृगयां जगाम ॥ ६६ ॥ इतस्ततो हस्तिकराभिधातनिपातसंजातमहाध्वनीनाम् । मार्गस्थितानां विबुधद्रुमाणां पङ्क्तिक्रमः केवलमारराज ॥ ६७ ॥