पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। अतिप्रचण्डदोर्दण्डकलितासिदण्डखण्डीकृतारातिचक्रसीमन्तिनीस- मुत्सारितशिरोवर्तिसिन्दूरधाराभरणसमस्तारुणीकृतदिग्वलयवर्तिबहुकालो- पचीयमानविरहव्यथाकुलितचारुचक्रवाकमिथुनमिलनोच्छासविश्वाससं- भावकः सुदर्शनो नाम राजा विराजते मध्याह्नमार्तण्डमण्डलोपमप्रच- ण्डप्रद्योतविद्योतिताशेषदिगन्तरमहाप्रसिद्धमानसादिसरोवरालंकारप्रदोष- मुद्रितसरोरुहोदरवर्तिमकरन्दलुब्धमधुपश्रेणीबन्धमोक्षणाकालप्रचारझा- ङ्लकारोदीतयशोराजहंसः । स एष नृपभैरवः समरसीम्नि दुर्वारणः समस्तधरणीपतिप्रथितलब्धयुद्धोत्सवः । यदीयरिपुनागरीनयनवारिसंपादित- प्रसन्नसरसीरसी चरति कीर्तिहंसीगणः ॥ १६ ॥ प्रचण्डचण्डांशुसनप्रभावः पुरा न भूतो न च कोऽपि भावी ! सुदर्शनो नाम महाबलोऽसौ यदोः कुले राजकुलावतंसः ।।१७॥ सुदर्शनयशोगानं कस्य कस्य न रोचते । कृष्णानन्दसमुत्पन्नं किं पुनर्व्रजमण्डले ।। १८ ॥ तस्यायं क्रमः---- वारंवारमुदारवारणपटासंघट्टसंभाविता- रातिक्ष्मापतिवीरधीरजलधिप्रव्यक्तरक्तं पयः । पीत्वा वर्षति वैरिवारिजमुखीनेत्राम्बुयुष्मद्यशो- मुक्ताः पुष्यति राजराज किमसिः किं स्वातिधाराधरः ॥१९॥ श्रीमद्वीरसुदर्शनाय मृगयारम्भं विमुञ्चाङ्कतः सातङ्कं हरिणः पते द्विजपतेर्भूयादनर्थो महान् ।