पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सुदर्शनचम्पूकाव्यम् । भाटीकुलावतंसो दुर्जनशालो महीपालः । आसीत्प्रसिद्धजन्मा शंकरवर्मा सुतस्तस्य ॥ ९ ॥ एतस्याजनि राजनीतिदयितः सर्वार्थचिन्तामणिः सर्वश्लाघ्यगुणः प्रतापतपनः प्रोत्तप्तसप्तार्णवः । प्रत्याशापरिपूरकः प्रतिदिनं कारुण्यवारांनिधिः श्रीमद्वीरसुदर्शनो नृपवरो जीयात्सहस्रं समाः ॥१०॥ अपरं च । स्फूर्जद्दुर्जनशाल एष विनयी दाता महीमण्डले भाटीवंशसमुद्भवोऽतिविदितः श्रीशंकरोऽस्यात्मजः। लोकानामुपकारकेण सुचिरं धात्रा धरामण्डले वीरो धीरसुदर्शनोऽतिकरुणो राजा कृतोऽयं कृती ॥११॥ कुमार इव धूर्जटेः सुरपतेर्जयन्तो यथा पठत्यनुदिनं गुरोर्निखिलबालविद्यां मुदा । सुदर्शनमहीपतेर्नृपतिचक्रचूडामणे- र्यशस्करणसुन्दरो जयति बालवृन्दारकः ॥ १२ ॥ वेदव्याकरणादिशास्त्रकवितालंकारसाङ्गागम- व्याख्यानस्फुरदिन्दुसुन्दरयशोवृन्देन देवात्मना । विश्वव्यापककामराजगुरुणा सोऽयं मुदा दीक्षितो वीरो भूपसुदर्शनो यदुकुले भूमण्डलाखण्डलः ॥१३॥ सुदर्शनो महाराजो विभाति क्षितिमण्डले । यथा शोभाकरश्चन्द्रो जगदानन्ददायकः ।। १४ ॥ तस्यैषा क्रियते चम्पूः सुदर्शनमहीपतेः । दानसंमानसंपद्भिः सर्वेषां सुखदायकः ।। १५ ।।