पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सुदर्शनचम्पूकाव्यम् । किं च त्वं चतुरोऽसि निर्मलयशःकर्पूरपूरश्रिया साम्यं सौम्य समागमिष्यति सदा निर्दोषदोषाकरः॥ २०॥ सुदर्शनमहाराजे दानाय समुपागते नृत्यन्ति गुणिनां गेहे कविता वनिता इव ॥ २१ ॥ सुदर्शनमहाराजे महादानं प्रकुर्वति । नृत्यन्त्यपि च गायन्ति दिक्षु भिक्षुकयोषितः ।। २२ ।। गृहं यदीयं स्फटिकाभिरामं संपूर्णकाम वृषभध्वजस्य । सेवां समासाद्य गुरोः प्रसादाच्छ्रीकामराजस्य महान्न तस्य ॥२३॥ कवित्वशक्तिर्मधुरा च वाणी भाषासु गीर्वाणवचोमये च । यस्यास्ति भूवौ स धनी कुलीनः स पण्डितः सर्वगुणानुपेतः ॥२४॥ साहित्यविद्यानिपुणः सदैव शास्त्रेषु सिद्धान्तसमस्तवेत्ता । ज्ञाता विशेषं कवितारसस्य दाता चिरं जीवतु सत्कवीनाम् ॥ २५ ॥ एतस्य द्वे भार्ये । दास्यश्च संजीवनी च । शुभूषणाय प्रतिपन्नभावा मनोरथज्ञा भुवि सुप्रसन्ना । पत्युः पदाम्भोरुहलुब्धभृङ्गी संगीतविद्यानिपुणस्य तस्य ॥ २६॥ पद्मेव कृष्णस्य, वृषध्वजस्य गौरीव गौरी, मकरध्वजस्य । रतीव, शक्रस्य शचीव, भूमौ सातोमरी वीरसुदर्शनस्य ॥२७॥ सुवर्णदानेन समस्तकालं सातोमरी पीतमयं करोति । महीतलं राजतपुञ्जदानैः शुक्लं कदाचित्कुरुते समन्तात् ।। २८ ।। सोही च- माणिक्यमुक्ताफलगुम्फितेन हारेण तस्या हृदयस्थितेन । नक्षत्रताराग्रहमण्डलानि विनिर्जितान्येव निर्जैर्मयूखैः ॥ २९ ॥