पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६२ काव्यमाला मध्ये गोपीपुरमिह महान्श्रावकोपाश्रयोऽस्ति कैलासाद्रिप्रतिभट इव प्रौढलक्ष्मीनिधानन् । अन्तर्वर्त्यार्हतमतगुरुप्रौढतेजोमिरुद्य- ज्योतिर्मध्यस्थितमघवता ताविषणोपमेयः ।।१० भित्तौ भित्तौ स्फटिकसरुचौ कुट्टििमे कुट्टिमे च संक्रामस्त्वं सुभग भविता स्यात्तलक्षस्वरूपः । युक्तं चैतत्तरणिनगरोपाश्रयस्यान्यथाश्री- र्द्रष्टुं शक्या न खलु वपुषैकेन युष्मादृशापि ॥ १०२ ।। तस्य द्वाराङ्गणभुवि भवान्स्थैर्यमालम्ब्य पश्य- न्साक्षाद्देवानिव नृजनुषो द्रक्ष्यति श्राद्धलोकान् । हस्त्यारूढानथ रथगतान्सादिनश्वार्थपौ....(!)- प्यर्थाश्रोतुं रसिकहृदयाशीघ्रमाटीकमानान् ॥ १७३ ॥ माद्यद्भूरिद्विपमदरसाश्चीयलालानिपात- क्लिन्नां खिन्नामिव धनजनवातसंमर्दखेदात् । द्वारं स्वस्याङ्गणभुवमतिप्रेङ्खितैस्तोरणानां स्नेहादाश्वासयति मरुतां प्रेरणेनेव शश्वत् ॥ १०४ ॥ मध्ये तस्याः श्रमणवसतेर्मण्डपो यः क्षणस्य सोऽयं कान्त्यानुहरति सतां तां सुधा मघोनः । मुक्ता चन्द्रोदयपरिचितस्वर्णमाणिक्यभूषा- श्रेणीदीप्तो विविधरचनाराजितरतम्भशोभी ।। १०५ ।। मध्ये सिंहासनमनुपमं तस्य शक्रासनाभं चेतश्चैतत्सखयति सतां हृद्यपद्यानुकारम् । सालंकारं सुघटितमहासंधिबन्ध सुवर्णं स्वच्छच्छायं सुललितचतुःपादसंपन्नशोभम् ।। १०६॥