पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इन्दुदूतम् । गोपीनाम्नः किमिह सरसो वर्णयामो महत्त्वं यत्क्षीराब्धेः कलयति कलां मथ्यमानस्य नो चेत् । आस्ते कुक्षौ किमिह निहिता मेरुरद्यापि किंवा वीचिक्षोभो मथनजनितत्रासतोऽत्रागतस्य ।। ९५ ॥ नीलच्छायां क्वचिदविरलैर्नागवल्लीदलौघैः शुभ्रच्छायं क्वचन कुसुमैर्विस्मृतैर्विक्रयाय । पिङ्गे चङ्गैरतिपरिणतैः कुत्रचिच्चेक्षुदण्डै- नानावर्णं पुरमिदमिति द्योतते सर्वदापि ॥ ९६ ।। पोतोत्तीर्णाम्बुधिपरतटोद्भाविनो वस्तुवृन्दा- न्द्राक्संख्यातुं क इह गणनाकोविदोऽपि क्षमेत । इष्टे मातुं क इव .. रजःस्वर्णमाणिक्यपुञ्जा- न्गुञ्जानेमारुणतररुचींश्चाङ्कुरान्विद्रुमाणाम् ॥ ९७ ॥ रूप्यस्वर्णप्रकरघटनप्रोत्थितैष्टङ्कशाला- गर्भोद्भूतप्रतिरवशतैस्तारतारैष्टकारैः । नात्र क्वापि प्रभवितुमलं दुष्टदौर्गत्यभूतः पूतः क्षौद्रे ह्युपशमविधौ मन्त्रसारष्टकारः ॥ ९८ ॥ यत्र श्राद्धास्ततसुमनसो विश्वमान्या वदान्याः संख्यातीता अमितविभवाः प्रौढशाखाः प्रशाखाः। कुत्राप्याद्याध(१)रकजनिताः संस्थिताः कल्पवृक्षाः प्रादुर्भूतास्तपगणपतिप्रौढपुण्यानुभावात् ॥.९९ ।। शिल्पिप्रष्टै रचितविविधानेकविज्ञानहृद्यं हिङ्गुल्वाद्यैः कनकखचितैर्वर्णकैर्वर्णनीयम् । दत्तानन्दं स(ह्र]दयहृदां वृन्दमर्हद्गृहाणां चित्रैश्चित्रं क इह न जनो वीक्ष्य चित्रीयतेऽन्तः ॥१०॥