पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इन्दुतम् । दीप्रोपान्तः स्वसदृशरुचा पादपीठेन नम्र- क्ष्माच्छेणीमुकुट घटनाक्रोमलीभूतधाम्ना । पङ्कयोडूनामिव गुणयुजा मौक्तिकस्वस्तिकेन व्योम्नो लक्ष्मी किल निदधतोपेन्द्रपादाञ्चितेन १०७(युग्मम्) तत्रासीनं परिणततपस्तेजसा पीनमन्तः- शुक्लध्यानोद्भवनवमहोझ्योतितात्मस्वरूपम् । साक्षात्तीर्थंकरमिव जगज्जन्तुजीवातुभूतं मूर्त्या शान्ताद्भुतमधुरया दत्तभव्यप्रमोदम् ॥ १०८ ।। अभ्यस्तानां गुरुमुखकजादागमानां निधानं साक्षादाद्यं गणधरमिवानेकलब्धिप्रधानम् । ज्ञानालोकप्रकटितजगत्तत्त्वदत्तावधानं ध्यानं धर्म्यं हृदि निदधतं सिद्धिशय्योपधानम् ॥ १०९ ॥ आकर्षन्तं कठिणतपसा लीलया सिद्धिराज्यं स्वर्गादीनां सुखमनुपमं मन्यमानं तृणाय । आ."माम्लाद्यतिपृथुतपः कार्श्यतः श्वेतकान्तिं सम्यग्लिप्तं किल धवलया लेश्ययान्तर्बहि फुल्लाम्भोजश्वसितमसिति श्मश्रुकूर्चाङ्कुरोद्या- नाबिभ्राणं सितमुखपटीं चाननाम्भोजहंसीम् । हस्ताम्भोजे दधतममलां वैद्रुमीमक्षमालां रागं प्राप्तामिव गुरुगुणैर्धूर्णमानां च चित्रे ।। १११ ॥ अङ्के धर्मध्वजमुरुमहः शोभमानं दधानं श्रेयोलक्ष्या प्रहितमिव सस्नेहया पुण्डरीकम् । प्रायः पद्मासनपरिचितं राजहंसोपसेव्यं खाध्यायेनानुगतवदनं ब्रह्म सब्रह्मरूपम् ।। ११२ ॥