पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मध्यस्थः सन्सुघटितरुची तौ कुरु प्रायशो य- त्प्रोत्तुङ्गानां भवति महतैवापनेयो विरोधः ।। ३ ।। तत्र क्रीडोपवनसरसीस्वच्छनीरान्तरेषु स्नात्वा स्वैरं प्रतिकृतिमिपान्नव्यधातांशुकः सन् । ज्योत्स्नाजालैः स्वपय मधुरैर्वीरवामेयदेवौ कर्पूराच्छैस्तदनु च करैरर्जयाभ्यर्य पुण्यम् ।। तस्याधस्तान्नगरमपरः स्वर्ग एवास्ति यस्य प्रौढेभ्यानां भवननिकरैर्ध्वस्तमाना विमाना। क्वाप्येकान्ते कृतवसतयः सज्जलज्जाभिभूता भूमीपीठावतरणविधौ पङ्गुतामाश्रयन्ति ।। ३ । यद्यप्याशु ग्लपितनयना हस्तविन्यस्तवक्रा दूयन्ते चेत्किरणनिकरैर्निभरं, विप्रयुक्ताः । विघ्नो (१) यद्यभिसृतिकृतिकृतां योगिनां च त्वदीये- ज्योत्स्नाजालैस्तिमिरनिकरा निवासिन मान ।। न प्रस्थेयं तदपि भवता वीक्ष्य दक्षेक्षणीय द्रङ्गं शृङ्गारितकुवलयं चित्रसंपूर्णमेतम् । विप्वग्दत्त्वा नयनयुगलं सम्यगालोकनीय पश्चात्तापस्तुदति हृदयं दर्शनीय स्। २॥ तस्माज्जालंधरपुरबरादुत्पतञ्शीघ्रगामी श्रीरोहिण्याः परिसरमथ प्रायसि मत्वं निमेषा ! स्थित्वा तत्र क्षणमियमपि प्रेक्षणीया समन्ता- न्नान्तःशल्यं स भवति सतां मार्थको यो विलम्बः । तस्यां चैकं सुखमुडुपते धार्मिकाणां महीयो यच्चैत्यानां शुचिरुचिमतामस्ति पङ्क्तिव्यवस्था ।