पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। गोपालोऽपि त्रिभुवनमिदं क्रान्तवान्यत्रिपद्या तत्राप्येतत्प्रभवति तव श्यालकस्यैव तेजः ॥ २० ॥ या चाञ्चल्याद्भुवि विजयते विद्युतो नीचसङ्गा- त्सिन्धुरन्धंकरणगुणतो श्यामलां धूमलेखाम् । सापि भ्रातुर्भवति भवतो माननीयानुभावा- द्विश्ये दोषान्गणयति जनो को हि राज्ञो भगिन्याः । गन्तव्यस्ते तपनतनयातीरकोटीरमिन्दो सूर्यद्रङ्गो गुरुपदयुगस्पर्शसंप्राप्तरङ्गः । गत्वा तत्र त्रिभुवनजनध्येयपादारविन्दो द्रष्टव्यः श्रीतपगणपतिर्भाग्यसंभारलभ्यः ॥ ३१ ॥ मार्गं तस्य प्रचुरकदलीकाननैः कान्तदेशं स्थाने स्थाने जलधिदयितासंततिध्वस्तखेदम् । आकर्ण्यान्तःकरणविषये(?) स्त्वापयोक्तं मयेन्दो- ऽभीष्टं स्थानं व्रजति हि जनः प्राञ्जलेनाध्वना द्राक् ॥३ शैलादत्मादुपसर पथा दाक्षिणात्येन बन्धो गन्धोद्रेकोल्लसितकुसुमस्तम्भितेन्दिन्दिरेषु । स्थाने स्थाने सरससरसः काननेष्वंशुपूरै- र्मोदं संपादय कुमुदिनीफुल्लपुष्पेक्षणानाम् ॥ ३३ ॥ तुङ्गे तिष्ठ क्षणमुडुपते त्वं सुवर्णाचलस्य क्रीडावापी सवनसरसैर्मारुतैः शान्ततापः । तत्रत्यानां सकलदिवसक्षुद्वयथापीडितानां सौहित्यं त्वत्किरणकवलैः स्ताच्चकोराङ्गनानाम् ।। ३४ तस्मिशैलेऽन्तिमजिनवरा वामवामेयदेव- प्रासादौ यौ तरुणकिरणैः संगरं निर्मिमाते ।