पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५२ ग तन्मध्यस्थे न भवति पथि प्रस्थितानां प्रयासो दूरादेव प्रणतशिरसां देवदेवप्रणामे ॥ ४१ ॥ तेनैवाथ त्वमपि विचारष्यत्यवश्यं पथेन्दो श्रद्धाशाली स्फुटमुभयतश्चैत्यमालाञ्चितेन । नामं नामं जिनभगवतामाकृतीश्चैत्यसंस्थाः पश्यन्नेकान्तरमवहितः सुष्टु सव्यापसव्यम् ।। ४२॥ एकं चैतद्वचनममलं मामकीनं न चित्ता- दुतार्य स्वीकृतनिजसुहृत्कार्यसिद्धे निदानम् । पण्यस्त्रीणामिह हि नगरे संनिवेशो गरीया- नास्ते तस्माद्धृतिमतिहराद्दूरमेवामिगच्छेः ।। ४३ ॥ काचिन्नाग्याः श्रयति समतां भोगिलोकोपगूढा हबी काचित्कलयति कलां तत्र किंपाकवल्याः । काचिद्गतां तुलयति युवभ्रंशहेतुः पणस्त्री काचिद्वान्ध्यप्रथननिपुणा याति वात्यासस्वीत्वम् ॥ ४ ॥ काचित्तीक्ष्णैर्नयनविशिखैर्मर्म यूनां भिनत्ति नर्मालापैर्हरति हृदयं काचिद्राकृतह्रद्यैः । काचित्साचिस्मितविकसितैर्मोहयत्यल्पबुद्धी- न्धैर्यं काचित्पटुकुचतटोद्धातनैर्लुण्ठति द्राक् ॥ ४५ ॥ तस्मादासां युवजनपृषद्वागुराणामवश्यं दूरात्यागो भवति हि नृणां श्रेयसेऽमुत्र चात्र । तत्राप्यङ्गीकृतनिजसुहृयाहृतेस्त्वादृशस्य व्यासङ्गो नोचित इति हितं द्विस्त्रिरेतद्वदामि ॥ ४६॥ तस्याः पुर्या भवति पुरतो नातिदूरेऽम्बुदाद्रि- र्द्रष्टव्योऽसौ तरुपरिवृतोदभ्रमभंकषाग्रः ।