पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। मा भूवं यमकिंकरैः कृतमयो देहान्त इत्याशया तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।॥ २२॥ पन्थाः शर्करिलः प्रतप्तसिकतस्तीक्ष्णोन्मिपत्कण्टको विद्यत्सूचिनिभास्यदंशमशकः कुप्यद्दशत्कुक्कुरः । यस्यास्तां नगरीं यमस्य मनुजैर्गभ्यां निशभ्याकुल- स्तस्सै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ २३ ॥ नान्नं नाम्बु न वाहनं न वसु न च्छाया न शीतानिलो यस्मिन्नास्ति घनातपोष्णसिकतोदन्याशनाध्याकुले । तं प्रेतेशपुरीपथं प्रविशतां बाधामलब्धुं नृणां तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ २४ ॥ याता येन जडाः प्रसन्नमतयो लुब्धा वदान्या भटा राजानः पिशुनाः परोपकृतयो मूकास्तथा वाग्मिनः । गन्तव्यं नियमेन तं यमपुरीमार्ग स्मरन्साध्वसा- तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ २५ ॥ यत्रास्ते मलमूत्रपूयरुधिरप्राया बिगाढुं नदी पर्यङ्कः शयितुं हुताशनमयस्तप्तायसस्त्रीसखः । करतामिच्छतु चेतसापि नगरीं याभ्यामतस्तद्भिया तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ २६ ॥ नीतानां नरकं नृणां यमभटैर्भीमैर्गृहीत्वा दृढं हा किं पापमकारि हा न विषहे हा घ्गन्ति हा का गतिः । इत्याक्रन्दितघोरमन्तकपुरं मे मास्तु पाहीत्यह तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। २७ ।। दृष्टेष्वन्तककिंकरेषु दलति वासेन हृन्मर्मणि प्राश्चे निष्क्रमणोन्मुखे कथयिता को मे तदानीं दशाम् ।