पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विश्वगर्भस्तवः । विज्ञाय स्वयमेव तावदभयं देहीति याचन्नहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ २८ ॥ यावन्मे न स दुर्दशाविमनसः कर्णान्तमाक्रामति क्रूरः कालकरालकासरगलव्यालोलघण्टाध्वनिः । तावत्तूर्णमुपेत्य पाहि कृपयेत्यद्यैव विज्ञापयं- स्तस्मै प्राञ्जलिरसि दाशरथये श्रीजानकीजानये ।। २९ ।। मूर्धानं मुसलैस्तुदन्ति नयने विध्यन्ति सूचीशतैः सिञ्चन्ति द्रुतसीसकं श्रवणयोश्छिन्दन्ति खड्गैस्तनुम् । मर्त्यानां यमकिंकरा इति भियः का वा कथा मे यत- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ३० ॥ आशाधीशजिदाशरेन्द्रजयिनं रामं श्रितानां पुरो धूमोर्णारमणस्य किं भटगणो धूनोतु गुर्वीर्गदाः । तेन स्यामहमाश्रितो रघुपतिं लोकेशमिल्युल्लिखं- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ३१ ॥ कुर्वेऽहं सकृदेव च प्रपदनं याचे तवास्मीति च श्रीमानद्य घटेत दातुमभयं मे सर्वभूतादिति । पर्यालोच्य कथंचिदप्यनुगुणीकृत्यातिलोलं मन- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ३२ ॥ पर्याकृष्य परस्त्रियाः परधनादप्यन्तरङ्गं चलं पारुप्याद्विनिवृत्य वाचमनृतादन्यापवादादपि । ध्यातुं स्तोतुमलं भवन्ति कतिचिद्भूमावहं केवलं तस्मै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ।। ३३ ।। १. धूमोारमणस्य यमस्य. यमस्य श्री अमोणी.