पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विश्वगर्भस्तवः । अप्राप्यैव मनोरथं निपतति प्राणीति निर्वेदत- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये॥ १६॥ सायं प्रातरहर्निशेति समये गच्छत्यनालोचिते प्रत्यासीदति जीवितावधिदिने काले कटाक्षोन्मुखे । किं धैर्यं क्व कुतूहलं तनुभृतामित्यन्तरालोचयं- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥१७॥ नेक्षन्ते गतिमायुषः स्वमुदरं पुष्णन्ति जाल्माः परं लोके पाणिपदं प्रसार्य रदनानुद्धाट्य मुञ्चन्त्यसून् । कस्तेषां पशुभिर्विशेष इति मा भूवं तथेति स्यंव तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १८ ॥ आसन्ने पतने तनोः क्व दयिता क्व भ्रातरः क्वात्मजाः क्व स्निग्धाः क्व महीपतिः क्व गुरवस्तापं तदापोहितुम् । तावद्योऽवतरन्हृदि क्षपयितुं शक्नोति सर्वां शुचं तसमै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १९ ॥ कत्यत्रामृषत क्षितौ कति मरिप्यन्ति म्रियन्ते कती- त्यालोच्यैवमिवात्मनोऽपि वपुषः पाते शुचं भाविनीम् । उद्वेगेन गरीयसा तरलितः स्वामिन्दयस्वेत्यहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ २०॥ कत्यार्याः कति पण्डिताः कति महीपालाः कति श्रोत्रियाः कत्याचारजुषः क्षितौ कवलिताः कालेन घोरात्मना । संप्रत्येष गतः क्व विस्मरति किं भीतोऽस्मि तस्मादत- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ २१ ॥ भो गृह्णीत विनह्यत प्रहरत क्लि्श्नीत मा मुञ्चत द्वेधा दारयतेति घोरवचनैर्भ्रूभङ्गभीमाननैः ।