पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भ्रात्रा च प्रियया च संभवदलंकाराय पार्श्वद्वये तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १० ॥ नोपासे कमलासनं न कलये नव्येन्दुवृद्धामणिं नालोके नमुचिद्विषं न गणये देवानथान्यानपि । मौलौ केवलमार्यदेशिकपदाम्भोजद्वयं भावयं- स्तस्सै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ११ ॥ नामान्यष्टशतं च यस्य भगवानाचष्ट पत्यै शिवो धाता यच्चरितं मृकण्डुतनयादद्यापि शृण्वन्स्थितः । आ बालादवकर्ण्यते भुवि कृता वाल्मीकिना यत्कथा तस्सै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १२ ॥ मन्त्रामेडनमेव न प्रथमतो यत्रार्चने का कथा शङ्कैवास्ति न दैवतैक्यमनने चर्या ममैनादृशी । किं कुर्यामलसः परंतु करुणामव्याजमातन्वते तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। १३ ।। नाधीतं विधिवन्न वा गुरुकुलावासादि चीर्णं व्रतं श्रौतस्मार्तविधिप्वनाचरणमाचारो निषिद्धेष्वपि । धर्मापेतधनेन जीवनमिति प्राप्तान्यधान्युज्झितुं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १४ ॥ संमूर्च्छत्कफरुद्धमार्गविलुठत्प्राणाभिघातत्रुट- न्नाडीविश्लथसंधिबन्धसुदृढारब्धाखिलाङ्गव्यथैः । द्रक्ष्यन्ते यमकिंकरा नृभिरिति श्रुत्वा तदप्राप्तये तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ १५ ॥ शक्तः किं भिषगेष भेषजमिदं सिद्धयत्किमेषा रुजा किं वार्येत पुरेव किंन्वहमपि स्यामित्यदारस्पृहः ।