पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

आनन्दमन्दिरस्तोत्रम् । यजृम्भते यदिह भाति विभाति रामं तत्तत्परीतमिह भाति तवैव शक्त्या । तस्मान्मृडानि रचिता वचनस्त्वदीयै- र्मातस्तव स्तुतिरियं कृपया गृहाण ॥ ९९ ॥ अद्धा व्यधायि बहुधा बिगताधिबाधा राधा त्वया कुतुकिता न च धारणा मे। किं ते कुतूहलमभूत्यकटादकोप- शुम्भादिदम्भदलने सुररक्षणे च ॥ १००। आनन्दमन्दिरमिदं स्तवनं मृडान्या मोदात्कृतं किल कवीन्द्रबहादुरेण । भक्त्या पठेत्प्रतिदिनं सुकृती मुदा यः सायुज्यमद्विजनुषः शुभमामुयात्सः ।। १०१ ।। आनन्दमन्दिरमिदं स्तवनं भवान्याः स्वानन्दतोऽरचि कवीन्द्रबहादुरेण ! लल्लाख्यदीक्षितवरेण सुधीश्वरेण बान्धोकरेण चतुरेण मनोहरेण ॥ १०२। अङ्कपञ्चाष्टचन्द्रेऽव्दे मास्याषाढे कुजे तथा । षष्ठीदिने शुक्लपक्षे कवीन्द्रेण कृता नुतिः ॥ १०३ ॥ इति श्रीचिरंतनमोर्वणीकरोपनामकियत्कालाकलितवान्धोकरोपनामकाशी. स्थमहाराष्ट्रभारद्वाजगोत्रपण्डितेन्द्रकवीन्द्रश्रीमच्छीशंकरदीक्षितपौत्रपवित्र विचित्रचरित्रचित्रितश्नीमच्छ्रीलक्ष्मणदीक्षितपुत्रधीकीन्द्रबहादुर- लल्लादीक्षितविरचितमानन्दमन्दिरस्तवन संपूर्णतासरणिमफाणीत् ।