पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। कैलासशैलशिखरोपरिशातकुम्भ- सिंहासनस्थितिमती चलचामरालीन् । लोकेशकेशवशिवप्रणुतामशेष- लोकालिमूललतिकां प्रकृतिं नमामि ॥ १३ ॥ यन्मायया वृतमिदं भुवनं विभाति न स्यन्दितुं किमपि नावृतमेव शक्तम् । लोकेशकेशवशिवाः प्रभवः स्फुरन्ति यन्माययैव किल तां प्रणमामि मायाम् ॥ ९४ ।। विश्वं स विष्णुरखिलं जनयत्यमन्द- मानन्दयत्यखिलमम्बुजभूः स मोदात् ।। अन्ते हरः स किल संहरतेऽखिलं त- द्यन्माययापरिमितां प्रकृति नुमस्ताम् ॥ ९५ ।। सर्वं चराचरमिदं भुवनं विभुर्या व्याप्य स्थितासि ललिता महितामिता त्वम् । वाचामगोचरतमा विषयः कथं स्या- स्तन्मे गिरां चपलतां जननि क्षमस्व ।। ९६ ॥ या मायया जगदिदं प्रकृतिर्ह्यशेष- मुत्पाद्य पालयति संक्षिपति प्रकामम् । सा मे कथं नु वचसामिह गोचरा स्या- न्मातः क्षमस्व चपलत्वमिदं शिशोर्मे ॥ ९७ ॥ ब्रह्माण्डखण्डभवनानि लसन्ति यस्यां तोयेषु बुहृदकुलानिव चञ्चलानि । सा मे कथं नु वचसां विषयः पराः स्या- स्तन्मे क्षमस्व गदितं तनयस्य मातः ॥ ९८ ।।