पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला श्रीमद्रामभद्रदीक्षितविरचितो विश्वगर्भस्तवः (जानकीजानिस्तोत्रमित्यपरनामकः ।) वेधोविष्णुमहेशवासवमरुद्हन्यर्कचन्द्रादयो यस्याज्ञां परिपालयन्ति चिरसा देवा नमोवाकिनः । सत्यानन्दचिदुज्ज्वल्प्रकृतये सर्वाधिपत्यम्पृशे तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥१ यं सर्वाण्यनुभान्ति भान्तमखिलं यद्भाभिरुद्भासते जाग्रत्वप्नसुषुप्तिषु स्फुरति यः साक्षी चिदात्मा परः । यं ज्ञात्वा व्यसनं तरन्ति जगदित्यास्ते यदज्ञानत- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ २ ॥ दृष्टे यत्र परावरे च हृदयग्रन्थिः स्वयं भिद्यते छिद्यन्ते चिरवासनापरिणताः सर्वे पुनः संशयाः । क्षीयन्ते खलु तत्क्षणं तनुभृतः सर्वाणि कर्माणि बा तसै प्राञ्जलिरसि दाशरथये श्रीजानकीजानये ॥ ३ ॥ येनालम्ब्य चतुर्मुखी नवजपापुष्पारुणां राजसीं “ मूर्ति कामपि सृज्यते महदहंकारादिचित्रं जगत् । १. 'पुस्तकचतुष्काधारेण लिखितोऽयमा विश्वगर्भस्तवः, तत्र पुस्तकत्रय मसन्मातुलस्य महाराजपुराप्रहारवास्तव्यस्य श्रीमतो नागवाभ्यार्थस्य अन्य: लिप्या तालपत्रे लिखितम्. तुरीयं तु कवेर्वासभूमेः तिरुवलराम्यस्थलादल सातपादैः संपादितं प्रेषितं । तच्च तालपत्रलिखितं अन्थाक्षरः' इति श्री. कुप्पूखामी शास्त्री तौरनिवासी.