पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारामृतलहरी । १६७

यथा-- 'तव सुभग गुणानां वर्णनाकर्णनायां कलयति कमलाक्षी कर्णकण्डूयनानि । अथ कथमपि कुञ्चल्लोचनं जृम्भमाणा रचयति भुजवल्लीवेल्लितैस्तोरणानि ॥'

अथ कुट्टमितम् । तत्त्वं च कामचेष्टादौ निषेधपूर्वकशिरःकम्पादिशालित्वम् । तदुक्तम्---

'आनन्दान्तं कुट्टमितं कुप्येत्केशाधरग्रहे ।' इति ।

यथा- 'सकचग्रहमब्जलोचनायाः कुचकूले नखरं ददत्यभीष्टे । न न मेति रुजेव मन्दमन्दं सशिरःकम्पमुदीरितं मुखेन ॥'

अथ विव्चोकः । तत्त्वं च गर्वातिशयादवधीरिताभीष्टत्वम् । चण्डकोपेऽतिव्याप्तिवारणाय गर्वेति । तदुक्तम्--

विव्वोकस्त्वतिगर्वेण वस्तुनीष्टेऽप्यनादरः ।'

यथा---- 'अवलेपलेपलोलितलोचनवृत्तिश्विराय मच्चेतः । कृन्तत्यभीष्टवस्तुन्यवहेला कापि पद्मदृशः ॥'

अथ ललितम् । तत्त्वं च सौकुमार्यव्यञ्जकचेष्टावत्त्वम् । तदुक्तम्-

'सुकुमारतयाङ्गानां विन्यासो ललितं स्मृतम् ॥'

यथा- मनो यूनां मा भूद्दलितमिति पादान्तरचरं किमु क्षोणीपृष्ठे रचयति पदं कोमलतया । भुजं मल्लीवल्लीकुसुमचयनेऽपि श्रमवशं कुरङ्गाक्षी कण्ठप्रणयिनमभीष्टस्य कुरुते ॥'