पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। अथ विहृतम् । तवं चासदृशश्चेष्टावत्त्वम् । तदुक्तम्-- वक्तव्यकालेऽनुक्तं यद्रीडया विहृतं हि तत् ।। यथा---- दूरायातेन मया वार्ता वार्तानुशंसिनी पृष्टा । नाचष्ट किं तु विदधे जलप्लुते लोचने सुमुखी ।। यथावा- 'न वृणोषि सुरानभूञ्शिवादीन्न च दैत्यान्कतरस्तवास्ति चित्ते । गुरुणेति मुहुर्निरुध्य पृष्टे विहतं सागरजन्मनोऽवतान्नः ।।" एषां स्वातत्र्येणैव रसोपकारकत्वं न पारतवन्त्र्येणेति वामनमतम् । तत्तु वामनमेव । नथाहि । किं नाम स्वातन्त्र्यम् । रसप्रकृतिकत्वमुत व्यभि- चारित्वम् । नाद्यः । तेषां स्थायिभावभूतायां रतावनन्तर्भावात् । किंच व्यभिचारित्वं रसान्तरसंचरणशालिन्यम् । तच्चैषां शृङ्गारोपयोगितया- नुपपन्नम् , सामानाधिकरण्येन तदुपयोगित्वमिति परमार्थः । तत्त्वं च जातिविशेष इत्येके । जात्यभाव इत्यपरे ! परे तु हावत्वभावत्वमख- ण्डोपाधिरित्यङ्गीचक्रुः । लीलादिवृत्तिसंयोगोपाधिधर्मवत्त्वमिति रहस्यम् । अथ विप्रलम्भे दशावस्था भवन्ति । ताश्चाभिलाषचिन्तास्मृतिगु- णकीर्तनोद्वेगप्रलापोन्मादन्याधिजडतानिधनानि । तत्र सङ्गेच्छाभिला- षः। यथा- 'ग्वञ्जनगलननयना नयनैर्भूयश्च चर्करीति तव । नीराजनं शरीरे तथापि तस्याः सरीसरीति रतिः ॥ दर्शनप्रकारकजिज्ञासा चिन्ता ! यथा---- 'गतागतैः सेह मया प्रतोली सेव्या सुधासूतिसरोरूहाक्षी । सचन्द्रसारङ्गमदं प्रवाहं कुर्वीत वातायनवीक्षितेन ।'