पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६६ काव्यमाला ।

यथा-- सितं धौतं बासो वयुषि नयने कज्जलविधि- र्नवा वीटी वक्रे चरणयुगलेऽलक्तकरसः । कपोले पत्राली वनहरिणपारिप्लवदृशां न भूषा पोषाय स्मरणजनुषः किं प्रभवति ॥'

अथ विभ्रमः । तत्त्वं व्युत्क्रमकल्पिताकल्पादिमत्वम् । तदुक्तम्--- 'अस्थाने भूषणादीनां विन्यासो विभ्रमः स्मृतः ।'

यथा-- 'याते त्वय्यरविन्दसुन्दरदृशा भालेऽञ्जनं श्रोत्रयो- र्लाक्षारञ्जनमेणनाभिरचना बिम्बाधरे चारचि । काञ्ची किंच गलेऽथ मौक्तिकलताहारो नितम्बे पदे केयूरं कचधोरणीधिषणया बद्धश्च चेलाञ्चलः ॥'

अथ किलकिञ्चितम् । तत्त्वं भावास्कन्दितधर्मवत्त्वम् । न च भावसंकरेऽतिव्याप्तिः, तत्र भावानामनैयत्यात् । प्रकृते तु 'क्रोधाश्रुभीतिहर्षादेः संकरः किलिकिञ्चितम्' इत्यभिहितत्वान्नियमः । अविशेषादनयोः पर्यायतेत्यपि कश्चित् । क्रोधादिचतुष्टयवृत्तिहावत्वसाक्षाद्व्याप्यजातिमत्त्वमित्यवगतिः । तथा च न दोषगन्धोऽपि । यथा---

'अरुणतरललोचनं सुकेश्याः स्रवदुरुबाष्पपयःप्रसन्नगण्डम् । अकलितविशदस्वभावहृद्यं स्मरमधुरं किमपि स्मरामि तस्याः ॥'

अथ मोट्टायितम् । तदुक्तम्---- 'सद्भावभाविते चित्ते ललनस्य कथादिषु । मोट्टायितमिति प्राहुः कर्णकण्डूयनादिकम् ॥'