पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारामृतलहरी । १३९ भूयो भूयाः सखि मम तनोर्बाहुदा तापशान्त्यै प्रीत्यै तेऽहं सुमुखि रचये मौक्तिकीं हारयष्टिम् ॥'

मध्यमो यथा- यद्यपि मुषितविलासं वदनं नयनं च शोणमलसाक्ष्याः। मकरी कुचयोः कबरीधूपः सायं विलोक्यते तदापि ॥'

अधमो यथा- 'शिरीषसुकुमारां मां कृत्याकृत्यमजानतः । नलिनीं कुञ्जरस्येव कथं पातयसे करे ॥'

एते च त्रयः प्रोषिता भवन्ति ।

पतिः प्रोषितो यथा---

'दोलायितश्रवणकुण्डलयुग्मबन्ध- गण्डस्थलीलुलितकुन्तलघर्मबिन्दोः । हारालिवेल्लितशताभिहतोदरायाः किंचित्स्मरामि मृगशावकलोचनायाः ॥'

उपपतिः प्रोषितो यथा---

'लीलाभिरुल्लिखति जातु मयि स्तनाङ्क- मम्मोजसुन्दरमुखी सनिषेधभीतिः । हन्ताद्य तत्स्मरति दग्धमनः सहास- कोपत्रुटद्भ्रुकुटि यज्जलजैर्जघान ॥'

वैशिकः प्रोषितो यथा---

"मदिरामधुरामोदाधरपानरसालसाम् । कदा मदागमोत्तुङ्गस्तनी लप्स्येऽहमङ्गनाम् ॥'

अनभिज्ञो नायको नायकाभास एव ।