पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३८ काव्यमाला । सकलमहिलासमरागो दक्षिणः । तदुक्तम्-

'सर्वासां नायिकानां यः समरागः स दक्षिणः' ।

यथा-----

'एकां चुम्बत्येकां श्लिष्यत्यपरां प्रसाधयत्यन्याम् । रमयति समानरागो रासरसे गोपिकारमणः ॥'

चतुरमानिनोः शठ एवान्तर्भावः । तत्र वचनचेष्टाव्यङ्ग्यवृत्तिभेदादाद्यो द्विधा । वचनव्यङ्गववृत्तान्तो यथा---

'अटवीमटवीं निशासु यान्त्यास्तटवीचीलुलितां कलिन्दसूनोः । तव सुन्दरि संगचारिणा वा भवितव्यं मुक्तेन कस्य पुंसः ॥'

द्वितीयो यथा-- 'वितन्वाने रदपदं नवे माकन्दापल्लवे । कान्ते हरिणशावाक्षी निनिन्द करमालिनम् ॥'

मानी यथा-- 'अपसर मम न स्पृशेः शरीरं प्रणयरुषा ननु भाषिते मयैतत् । शिवशिव शिबिरं विहाय यातः कथयत किं करवाणि जीवितेशः ॥'

एते चोत्तममध्यमाधमभेदात्त्रिधा । यत्तूत्तमत्वादयो भेदा वैशिकस्यैव नेतरयोरित्याहुः । तन्न मनोहरम् । उत्तमव्तादिकं तु विजातीयचेष्टानिबन्धनम् । तस्याश्च सर्वसाधारणत्वमपि वक्तुं युक्तम् । न च चेष्टायां वैजात्यविशेषणे गौरवमिति वाच्यम् । तस्य प्रामाणिकत्वादित्यनवद्यम् । तत्र कोपशीलायामपि प्रियायामनुराग्युत्तमः । कोपशीलायां प्रियायां दूरत एव मनोभावग्राही मध्यमः । कामकलिगु कृपाहीनोऽधमः ।

तत्राद्यो यथा- 'शोणः कोणस्तव नयनयोर्वाक्प्रपञ्चः समुद्रो भीमा भ्रूस्ते तदपि तनुषे तापमापत्सरूपम् ।