पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४० काव्यमाला । स यथा--

'साकूतस्मितगण्डशोभि मुदितप्रेमप्रपञ्चं मुहुः शून्ये सद्मनि पद्मपत्रसुदृशा भूयो दृशामीक्षितः । स्वैरं चोल्लिखितो नखैः शरसस्वैर्देवस्य चेतोभुवो मातः किं करवै न वेत्ति नृपशुस्तैस्तैरनङ्गेङ्गितैः ॥' केचित्त्वनुकूलस्यापि विक्रमादेर्दाक्षिण्यदर्शनाद्दक्षिणत्वेनापि स्थितस्य कृष्णादेः शठत्वदर्शनादानुकूल्यादयोऽवस्था एवं न स्वभाव इत्याहुः । नैतत् । अन्यसंभोगचिह्नितत्वादिधर्माणां योषितामुद्भावने रसाभासापत्तेर्दुर्वारत्वान्न नायकेष्वष्टविधभेदाक्षेपः । अनुकूलत्वादिना नायकभेदाद्विशेष इति । यत्तु प्रच्छन्नप्रकाशभेदादेतेषां द्वैविध्यमूचुस्तदेतदानुकूल्यमन्यत्र प्रच्छन्नमिति संगमनीयम् । एते च दिव्यादिव्यदिव्यादिव्यभेदात्त्रिविधाः । दिव्याः शंकरादयः, अदिव्या अर्जुनादयः, दिव्यादिव्याः कृष्णादयः । तेषां च नर्मसचिवा विटचेटविदूषकाद्या ज्ञेयाः । उक्तं च---

'शृङ्गारेऽस्य सहाया विटचेटविदूषकाद्याः स्युः । भक्ता नर्मसु निपुणाः कुपितवधूमानभञ्जनाः शुद्धाः ।' इति । यद्यप्येतेन पीठमर्दः शृङ्गारे सचिवः कुपितवधूप्रसाधकश्चेत्युक्तं कैश्चित् । तत्परास्तम् । तथापि प्राचां लेखानुरोधाद्वर्ण्य॑ते । आदिपदान्मालाकारताम्बूलिकादयः । तत्र कुपितस्त्रीप्रसाधकः पीठमर्दः । कामतन्त्रकलाकोविदो विटः । यूनोः संधानकरश्चेटः । विकृतवचनाद्यैर्हास्यकारी विदूषकः । मालाकारताम्बूलिकौ प्रसिद्धौ । क्रमेणोदाहरणानि-

'जहिहि सुतनु मौनमस्तु मुद्रा ननु कलकण्ठकुटुम्बिनीमुखेषु । अयमपि लभतां विलोचनान्तःस्रवदमृतद्रवनिर्भराभिषेकम् ॥'