पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वृन्दारकालिमुकुटालिमिलामसार- माणिक्यमञ्जुमधुपाञ्चितपादपद्मा । पद्मालया कराचामरवीज्यभाना मानाय मे भवतु सा गिरिजासभाना ॥२१॥ नायाति ते हृदि दया सदयेऽपि भात- रद्यापि मे मनसि सत्कुतुकं चकास्ति । आलोक्य रोदनपरं तनयं न कस्याः स्वान्ते समुल्लसति सान्द्रदया नु मातुः ॥ २२ ॥ मातर्भवानि शुभवाणि भवानि नम्रः कत्रस्त्वदङ्घ्रिनलिनाञ्चिततचञ्चरीकः । चञ्चच्चराचरविचित्रचरित्रचारु- चूडेव लोकयसि मां न विलोलदृग्भिः ॥ २३ ॥ आलोक्य रोदनपरं तनयं नवं स्वं का वा भवेन्न जननी जनिताङ्कपालिः । दृष्ट्वापि मामपि रुदन्तमनन्तमन्तः- कान्तकृपापि न कथं समुदेति मातः ॥ २४ }} सिद्धेश्वरि त्रिभुवनेश्वरि सिद्धसंघ- संपूज्यपादकमले कमलायताक्षि । अन्वर्थतां कृतवती भक्ती भवानी सर्वेषु ते मयि कुलो व्यभिचारचारः ॥ २५ ॥ अद्धा स्मृतं यदिह सिद्धसुधीन्द्रसंधैः सिद्धिं दधाति बहुधा बहुधाम धाम । गन्धर्वधुर्यविबुधोदुरसाधु सिद्धिं सिद्धेश्वरी पदयुगं ध्रुवसादयातु ॥ २६ ॥