पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

आनन्दमन्दिरस्तोत्रम् । वन्दारुवन्द्यसुरवृन्दकिरीटकोटि- श्रीमन्मसारमणि मञ्जुलमिलन्मिलिन्दम् । सान्द्राङ्गुलीचलदलं नगनन्दिनी श्री- यादारविन्दमिह नन्दयतादमन्दम् ॥ २७ ॥ आनन्दसुन्दर पुरंदर बिन्दुवृन्द- संदेह दोलितसुवर्णनवर्णनीयम् । मन्दान्प्रनन्दयतु बालमृणालवाह्य- त्किंजल्कपुञ्जजनिमञ्जुलमञ्जुकुञ्जम् ॥ २८ ॥ शाणावलीढितमनोहरहीरकामा- सद्भासुरं गिरिभुवो विभवौधभव्यम् । सद्भानुभानुनिकरद्युतिदामवामं कामं करोतु निभृतं मम जानुयुग्मम् ॥ २९ ॥ संतापसंततिनिरन्तरतान्तिशान्ति- कान्तं प्रकामकदलीकुलकोमलं च। श्रीकण्ठकेलिकलनाभवनं भवान्या जङ्घायुगं जरयतु ज्वरमुज्वलं मे॥२०॥ यस्य प्रकाममहिमानममन्दमान- मालोक्य काञ्चनगिरिर्जडलामयासीत् । शैलावलीन्द्रजनुषो निभृतं नितम्ब- भारः स में भवतु भव्यतराय भूषः ॥ ३१ ॥ योऽभून्महामतिमतां सदसद्वृकल्प- कल्पः प्रकामरसनाबलनाभिरामः । श्रीकण्ठमुष्टिधरपोकविलासशाली भव्याय मे भवतु भूधरभूवक्षः ॥ ३२ ॥