पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सीतास्वयंवरकाव्यम् । ११३ हरिकृष्णभट्टविरचित सीतास्वयंवरकाव्यम् । श्रीराजराजोऽजनि यस्य गेहमाशिश्रियच्छ्रीः श्रितचारुरूपा । सीताभिधाना जनको जनानां यथा सुतानामविता तथा सः ॥ १ ॥ युधिष्ठिरो भीमपराक्रमश्च जगत्त्रयेऽप्यर्जुनकीर्तिरासीत् । अलंकृताहीनकुलः कुलाब्जप्रकाशभानुः सहदेवतुल्यः ॥ २ ॥ तस्मिन्नरेन्द्रे मिथिलाधिनाथे स्वर्गस्पृहायां शिथिलादरोऽभूत् । न वासवस्य स्मरति स्म वीक्ष्य तं नन्दनं निन्दति नव्यवाटीः ॥ ३ ॥ शूली शिवोऽभूत्सगदोऽथ विष्णुः सरुग्रविस्तस्य सुतोऽथ मन्दः । उद्यानदेशः समभूत्सगुल्मः क्षयी शशी नैव जनस्तदाभूत् ॥ ४ ॥ कथा पुराणे खलु पाण्डपञ्चकस्याप्युदावर्तवती स्रवन्ती । अभूत्तदा सप्रदरोऽरिवर्गस्तस्मिन्धरां शासति धीरधीरे ॥ ५ ॥ तस्याभवच्छ्रीर्दुहिता हिताय चराचरस्याखिललोकवन्द्या । अयोनिजा चेतसि मन्यमाना निजेऽमिधानं चरितार्थमस्य ॥ ६॥ क्षणे क्षणे सेक्षणमीक्षकाणामपारलावण्यसुधासमुद्रे । निमज्जयन्ती नवयौवनेन प्रकाशितं रूपमवाप सीता ॥ ७ ॥ पुत्रीं पवित्रीकृतवंशगेहां देहान्तरङ्गश्रितपञ्चबाणाम् । प्रतर्क्यतर्कागमशुद्धबुद्धिरहो विवाहे समयं स मेने ॥ ८॥ अचीकरत्क्ऌप्तमनल्पशिल्पैः सुशिल्पिभिः स्वर्पतिशिल्पिकल्पैः । वसुंधरामण्डलमण्डनाभं सीताविवाहाय स मण्डपं तम् ॥ ९॥ मसारसस्फाटिकपद्मरागरागैः सुकिर्मीरितमध्यभागः । सुराङ्गनामज्जनजातरागं यो मण्डपेशोऽन्वगमत्प्रयागम् ॥ १० ॥

८ चतुर्दशगु०