पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११४ काव्यमाला । वाराङ्गनागीतिविधाजुयादाः प्रवीणोणारवरागमिश्राः । नृणां वितेनुः समृदङ्गनादा यच्छालमञ्जीकृतगानशङ्की॥ ११ ॥ वातोर्मिभिर्दोलितसत्पताकाश्रेणिः समेतागरुधूमवल्ल्या । यत्रोपरिष्टाच्छ्रितयामुनौघमन्दाकिनीजां श्रियमन्वकार्षीत् ॥ १२ ॥ सोपानमार्गैरुपरि प्रयातो जनो विहर्ता यदधित्यकासु । कनीतदृग्वृत्तिरुपत्यकासु गजावलीः कूर्मकुलानि मेने ॥ १३ ॥ यत्कुट्टिमाट्टालविटङ्कवासैः कलापिभिर्दुन्दुभिमन्द्रनादः । अमानि धीरध्वनिरम्बुदानामकालकेकीकृतलोकचित्रैः ॥ १४ ॥ अभ्रंलिहाग्रस्थसुरेन्द्रनीलप्रभावितानन्दजलाशया यत् । नानामणिक्ऌप्तमहेन्द्रचापं पाथोऽपि दात्यूहकुलं ययाचे ॥ १५ ॥ प्रतप्तजाम्बूनदजालमुक्तैर्मुक्तागणैर्यत्र सुधासवर्णैः । सुमेरुशृङ्गागतगौरगङ्गाप्रवाहलक्ष्मीरुररीकृताभूत् ॥ १६ ॥ यद्भित्तिभागे लिखितस्थ खिङ्गैरनङ्गलेखस्य सुवर्णवर्णैः । चमत्कृतावाचनचातुरीमी रोमाञ्चकस्याञ्चति चञ्चलाक्षी ॥ १७ ॥ पुरंदराशाचितभित्तिनद्धैः स्फुटज्जपापाटलपद्मरागैः । सूरोदयानन्दमनायि यत्र मुहुर्निशीथेऽपि च कोकलोकः ॥ १८ ॥ वर्षास्वपि स्वर्णपिनद्धरत्नयद्दीर्घिकानीरनिवासहृष्टाः । मृणालिनीबीजभुजो मराला न मानसं मानसमप्यनैषुः ॥ १९ ॥ यच्चन्द्रशालाश्रितगायकानां स्थानप्रदानोत्सुकनायिकानाम् । गेयं विपञ्चीगुणरागपेयं मध्यंदिने साध्वधिनोद्दिनेशम् ॥ २० ॥ बालाननैः स्फाटिकजालमालास्फुटैः स्फुटत्तामरसाभिरामैः । मन्दाकिनीस्वर्णसरोजराजीशोभा भृशं यत्र समन्वभावि ॥ २१ ॥ सितोपलाबद्धतरासु यत्र स्त्रीणां स्फुटत्कोकनदोपमेषु । लाक्षारसक्षालितपादपद्मपदेषु पद्मीयति चञ्चरीकः ॥ २२ ॥