पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११२ काव्यमाला । सूरिणि कथयति धर्मं परदारांश्चिन्तयेन्नेति । आकर्ण्य चञ्चलाक्षी साचिमुखी प्राहसत्सुमुखी ॥ ९२ ॥ सेकेनार्द्रतनुः सा दैवान्नववार्षिकाभ्ररचितेन । प्रस्वेदपुलककम्पा नार्यायै गोपयामास ॥ ९३ ॥ सैरभवाहनमद्य स्वप्नेऽहमपश्यमिति पतिवचः श्रुत्वा । प्रथमं मुदितापि भृशं रुरोद परमङ्गना काचित् ॥ ९४ ॥ सोमार्धनिभं नखरक्षतं नवं प्रतिनिशं स्न(र)ते दयितम् । किमिदमिति दर्शयन्ती विहसन्ती खेदयति हलिकयोषा ॥ ९५ ॥ सौरतखेदात्सुप्तं विहसन्ती कापि संजगाद पतिम् । आवां मिथःसहायौ कुर्वः प्रविभज्य कार्यमर्धार्धम् ॥ ९६ ॥ संतत्यभाववशतः खिन्ने परिपृच्छति द्विजं दयिते । नैजमनपायिवन्ध्याभावं श्रुत्वा मुमोद मदिराक्षी ॥ ९७ ॥ हलिकाङ्गनान्धतमसाऽभिसारिणी निकटदेवकुले । हस्तेन परामृशती बुभुजे पान्थेन दृष्टचाषेण ॥ ९८ ॥ हासपरिपाटलाधरमाकूणितनेत्रमुल्लसद्गण्डम् । अलमिति यन्मदिराक्षी जगाद तत्कृन्तति हृदन्तः ॥ ९९ ॥ हिमनिबिडाश्लिष्टतनु प्रपीडितोरोजमभिशयानम् । रतये नु मिथुनमसकृत्प्रबोधयति हैमनः पवनः ॥ १०० ॥ रसिकानन्दनिकायां श्रीमत्कविकामराजरचितायाम् । शतकं तृतीयमेतत्पूर्णं शृङ्गारकलिकायाम् ॥ १ ॥


१ जहर्ष-मुमुदे.