पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ताराशशाङ्कम्। ९५ अस्त्वेतदखिलं लोकः स्वदोषं नैव पश्यति । वदेन्द्रोपेन्द्रसहितं भवभक्तिवशं गुरुम् ॥ १९५ ॥ समानहृदयामिमां श्रितवतः स्वयं संगतां किमत्र मम दुष्कृतं कथमियं विसृज्या च मे । अयुक्तमभिभाषसे यदि तवाद्य कण्डूः परा द्रुतं पशुपते स मे ह्यचलतेजसं मामिति ॥ १९६ ॥ ततस्तस्मिन्गते दूते समीकाय पिनाकिनम् । आह्वयन्तमभिप्रागाच्छुक्रशिष्यैर्वृतः शशी ।। १९७ आसीद्देवासुराणामथ युगविगमादित्यसंभेदशङ्का- कारि क्रूरास्त्रशस्त्रप्रभवहुतवहज्वालजालोल्वणं तत् । घोरं तारामयाख्यं रणमुदधिपरिक्षोभसंभूतवीची- घोषत्रस्यद्दिगन्तद्विरदवरशिरश्चालितक्षोणिचक्रम् ॥ १९८ ।। स्वस्वास्त्राभ्यां रुद्रसोमौ समेतौ दृष्ट्वा धाता तौ जगन्नाशशङ्की । आविर्भूयावार्य युद्धं मृदूक्त्या जीवाय द्राग्दापयामास ताराम् ॥१९९।। पराहितं गर्भमये त्यजेत्यथो तारा घवेनाभिहिताभ्यसूत सा । शिशुं तमालोक्य मनोहरं गुरुः शशी ममेति व्यवजहतुस्तदा ॥२०॥ कस्यैष बाल इति सा बहुभिश्च पृष्टा मौनं यदा न विजहौ स शिशुस्तदात्वे । क्रुद्धो जगाद जननीमयि दुर्विदग्धे घोरं शपामि यदि नो वदसीति शीघ्रम् ॥ २०१ ।। शिशोर्वाक्यं तदाकर्ण्य सर्वे सुमनसस्तदा । विस्मिताः समपद्यन्त साक्षाद्विष्णुं स्म तं विदुः ।। २०२ ।।