पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला चित्रैर्नाभी चपेटैरिव निभृतमुदं मध्ययष्टिं च किंचि- त्पुष्टां चक्रे प्रियायाः कतिपयदिवसैरेव मित्रं स्मरस्य ॥१८॥ तस्यां कदाचिन्निकटस्थितायां मुख्यैः सुहृद्भिः सहितः सितांशुः । दूतं गिरीशस्य गिरोपयातमुवाच मन्दस्मितलाञ्छितास्यः ॥ १८८ ॥ रूपानुरूपगुणविभ्रमलोभनीया- मेतां कथं कथमपि प्रयतो विधाता । निर्माय हन्त निगमाध्ययनालसस्य हस्ते चकार सुरलोकपुरोहितस्य ॥ १८९ ।। संमित्कुसुमपल्लवच्छदपवित्रदर्भाङ्कुर- भ्रमाकुलितचेतनः क सुमनःपुरोधा गुरुः । पटीरहिमवालुकामृगमदनगुल्लासिनी क चेयमसमाशुगागमकृतव्रता कामिनी ॥ १९० ॥ अभिज्ञानामाद्यो निरुपममहाः प्रौढिमनिधि- र्महैश्वर्यावासः सरसहृदयः प्रीतिजननः । तथापि श्रौतार्थव्यसननिरतो मे पतिरिति ध्रुवं शोचन्त्येषा समजनि कृशाङ्गी सुवदना ॥१९१॥ दीपिकेवाकुलदृशो दरिद्रस्य मणीव च । परं परोपभोगाय वैदिकस्य विलासिनी ॥ १९२ ।। तदेतया विलासिन्या तस्य किं नु पुरोधसः । भजेति चेटिकां ब्रूहि कामकण्डूतिशान्तये ॥ १९३ ।। भ्रातुः परिग्रहपरिग्रहणप्रवृत्तो- ऽप्यास्तां गुरुः स विरहार्तिविमूढचेताः। किं दारुकावनवधूं गिरिशोऽप्यहल्या- मिन्द्रो नहि स्मरति गोपसतीरुपेन्द्रः ॥ १९४ ।।