पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ताराशशाङ्कम् । स्मरसि विहरतोः पुरावयोः किं सरसि धनस्तनि यत्त्वमीर्ष्ययात्र । नलिनमुकुलसंग्रहप्रवृत्ते मयि जलपूर्णमुखेन फूदकार्षीः ॥ १७९ ॥ स्मरसि च कपोतपोतस्वरमनुकलयेति वदति मयि यदिह । त्रपिता सस्मितमवदः कुपितेव न पौरुषं तवार्हमिति ॥ १८० ।। स्मरसि किमवचिन्वती सुमानि भ्रमरक एष विजृम्भते हृदीति । वदति मयि विधुन्वती दुकूलं सरयमगाः किल चम्पको यदत्र ॥१८१॥ स्मरस्यपि चलेक्षणे प्रतिकृतिं तवाम्भोरुहा- द्रमामिव परिच्युतां सरसि वीक्षमाणे मयि । भृशं किल विशङ्किताद्भुतमुपेत्य दृष्ट्वा सर- स्रपाविवशिता शनैरपससार यत्त्वं पुनः ॥ १८२ ।। सरस्यम्भोजाक्षि त्वमपि सुमनःकन्दुकहता मया मध्ये वक्षोरुहमखिलगात्रोद्गतजला । विमुह्यन्तीवेषन्मुकुलितदृगालम्बति मयि प्रबुद्धा मद्धस्तं रुष इव यदाधूनयदिह ।। १८३॥ स्मरसि किमु चाटुवाक्यं मयि लापयति त्रपाकुला त्वमिह । यत्केलिशारिकायै व्यतरस्तुष्टेव शिखरिवीजानि ॥ १८४ ॥ स्मरस्यप्यक्षकेलौ मां विजित्यापि यथापणम् । अवाप्तुं पौरुषं नालमभूर्यदिह कामिनि ॥ १८५ ॥ इति प्रदर्शयंस्तांस्तान्विलासविषयान्विधुः । शनैः शनैस्तया साकमगारमगमन्निजम् ॥ १८६ ॥ वक्षोजौ मेचकाग्राविव जनितकिणौ रिङ्गणैरङ्गुलीना- मीषपाण्डू कयोलाविव मुषितकलौ डम्बरैश्चुम्बनानाम् । १. दाडिमबीजानि.