पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९२ काव्यमाला। आरोप्य चाङ्कभुवि संकुचिताङ्गयष्टि- माचुम्बति स्म वदनं कुचलोलपाणिः ॥ १७१ ॥ आनन्दसाम्राज्यनिमग्नचेतसोर्यथापुरं पोषमवापतुस्तनु । क्षणात्तयोर्नव्यमिव व्यभाज्जगत्समस्तमासीन्मतिरीदृशी तदा ॥ १७२ ॥ योगानन्दमखण्डं किमिति ब्रुवते महाकवयः । नूनं शास्त्रव्यसनान्नासीद्भोगेषु तेषां धीः ॥ १७३ ।। अनशननियमेन श्रौतचिन्ताकुलाना- मजनि मुनिजनानां नूनमुन्माद एव । परममिति हि किं वा सादरं संगिरन्ते सहृदयजनसङ्गानन्दसाम्राज्यतोऽपि ॥ १७४ ॥ विनाशो दुःखानां विरतिरपि मोहस्य महतः सुखस्यापि स्फूर्तिर्न भवति किमत्रैव सततम् । विशेषः को मोक्षे श्रुतिरपि च भोगैकफलदाः क्रियाः प्रोचे कण्ठादुपरि परमं ब्रह्म तदिति ॥१७॥ तयोश्चिन्तयतोरेवमानन्दाम्बुधिमग्नयोः । प्रययौ सा सखी भोज्यपदार्थादानकैतवात् ॥ १७६ ॥ ततः कृतार्थः स तया समं शशी निषेवमाणो मरुतं ततस्ततः । संप्रस्थितः खं निलयं जगाद तां विलासभूमी रुचिराः प्रदर्शयन् १७७ स्मरसि यदिहारामे रामे सुमान्यवचिन्वती हरति मरुति क्षौमं वासः समीक्ष्य मम स्मितम् । अयमुपसरेदित्यावृत्य द्रुतं जघनस्थलीं त्वमपिदधती सूनं लूनं समस्तमवाकिरः ॥ १७८ ॥ १. अपिदधती आच्छादयन्ती.