पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ताराशशाङ्कम् । Be एवमानन्दसाम्राज्यविवशो बहुशः शशी । विचिन्त्यात्रैव तारेति निश्चिकाय चिराय सः ॥ १६१ ॥ आकर्णयन्कर्णसुखानि तस्या वाक्यानि चैतन्यविकासकानि । ईचिक्षिपासंभ्रमलोलदृष्टिर्मुद्गन्करीव व्रततीर्जगाम ॥ १६२ ॥ स तत्र चैकत्र सुरद्रुमस्य प्रगृह्य वामेन करेण शाखाम् । कोषीभवत्पङ्कजसुन्दरेण परेण पुष्पाण्यवचिन्वती ताम् ॥ १६३ ।। वामेतरांसस्खलितोत्तरीयामुत्कंधरामूर्ध्वविलोलदृष्टिम् । कर्णावलम्बिप्रसवाग्रलम्बिरोलम्बशङ्काकरकुन्तलालिम् ॥ १६४ ॥ संकोचिताङ्गं चलनेत्रतारमाकुञ्चितभ्रूकुटिकम्प्रहस्तम् । कचित्कचिद्भृङ्गनिपातभीत्या शनैः प्रसूने करमादधानाम् ॥ १६५ ।। अलं प्रसूनावचयेन भद्रे मनोभवार्चावसरोऽयमायान् । करण्डपाण्येति विबोध्यमानामाल्या मुहुः श्रान्तसमस्तगात्रीम् ॥१६६॥ , नमो नमस्ते भगवन्प्रसीद प्रपन्नकल्पद्रुम मन्मथेति । मुहुर्वदन्तीं मदनाग्नितापविशोषिताङ्गीं स्वरमात्रबोध्याम् ॥ १६७ ॥ अशोचनीयां प्रियदर्शनां च वातेन पत्रावलिशोषणेन । स्पृष्टा लता माधविकेति शङ्कयां प्राणप्रियामैक्षत शीतरोचिः ।।१६८॥ हृष्टः समेत्य पश्चात्कुचतटचलदेकपाणिरेष शनैः । अवटुतटघटितकुसुमं कबरीभरमग्रहीत्तस्याः ॥ १६९ ॥ आकृष्यमाणेव लतातिभीरुर्निवृत्य तं चन्द्रमसं निरीक्ष्य । ईषत्रपावक्रितगात्रयष्टिः स्तब्धा क्षणं सा प्रतिमेव रेजे ॥ १७० ॥ आलिङ्गय निश्चलकरामगलत्मसूना- मादाय सोऽपि तरलाङ्गुलिपल्लवान्तः । १. ईक्षितुमिच्छा.