पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९० काव्यमाला। उदञ्चयति रोमाञ्चमुल्लासयति मानसम् । उन्मूलयति संतापमनिलोऽम्बुजसौरभः ॥ १५१ ॥ विसृज्य कुसुमानीह विद्रवन्तो मधुव्रताः । प्रदर्शयन्ति मे मार्गमिवैते मधुरस्वराः ॥ १५२ ॥ इदं विकचपङ्कजं सर इमेऽपि मन्दानिलो- ल्लसत्कुसुमलालसभ्रमरपङ्क्तयः स्वर्द्रुमाः । इयं पुलिनविभ्रमोन्मदमरालवामालिरि- त्ययं सहसितेक्षणस्तत इतोऽविशतद्वनम् ॥ १५३ ।। प्रविशंस्तत्र शुश्राव तारायाः करुणां गिरम् । मनीषितफलावाप्त्यै प्रार्थयन्त्या मनोभवम् ॥ १५४ ॥ सांसारिकपरानन्दकन्दं कंदर्पमेव तम् । वन्दामहे किमपरैरदृष्टसुखसाधकैः ॥ १५५ ॥ आसीदर्धं पौरुषं चान्तकारेः शौरेः सद्यो भीरुतैवाविरासीत् । मायावेषाद्यस्य तस्यात्मयोनेर्माहात्म्यं ते को नु विज्ञातुमीष्टे ॥१५६॥ लोकातीतं वस्तु किं वा चकास्तीत्याभाषन्ते शास्त्रविज्ञा महान्तः । जाने तस्याप्यङ्गजातं प्रभुं त्वां मायायोगात्पौरुषं नाम तस्य ॥ १५७ ॥ एकं द्विधा कलयितुं सकलाः समर्थ द्वावेकमारचयितुं त्वदृते न कोऽपि । त्वामर्चयामि तदहं सुचिरं त्वयैव संतापितो घटय नौ भगवन्मनोज ॥ १५८ ॥ श्रुत्वा स मधुरां तस्या वाचं वाचामगोचरम् । आनन्दमन्वभून्नष्टां श्रियं प्राप्येव भूमिपः ॥ १५९ ॥ विधिरमणीपाणिरणन्मणिवीणागुणकलक्वणोदारः । मरुदवनीरमणवनीचरदलिनीमदहरः स्वरः कस्याः ॥ १६०॥