पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ताराशशाकम् । इत्याद्यनुपदं शोचन्त्यनङ्गशरपीडिता । शनैरगमदुद्यानमवलम्ब्य सखीकरम् ॥ १४० ॥ चन्द्रोऽपि मुह्यन्विवशः स्मरार्तो विचिन्त्य नानाविधमाकुलात्मा । न जीवितुं शक्यमपि क्षणं वा प्रियां विना तामिति निश्चिकाय॥१४॥ तां पश्यामि दरस्मितां सहसितं जल्पामि साचीक्षणं पश्यन्त्याश्चिबुकं स्पृशंश्चलकरश्चुम्बामि बिम्बाघरम् । आलिङ्गाम्यतिकौतुकेन कठिनापीनस्तनीं गाढमि- त्युद्यत्केलिमनोरथः स शनकैः प्रातिष्ठदैन्द्रं पुरम् ॥ १४२ ॥ प्रस्थितस्य शुभं तस्य प्रशशंस स्फुरन्भुजः । अनुगोऽभून्मरुत्पोतो मानसं च पुरःसरम् ॥ १४३ ॥ उत्साहे सति किं शक्त्या कामे सुहृदि किं भटैः। किं रथेन च संकल्पहये सति मनोरथे ॥ १४४ ॥ पुरःस्थितां भावनया पुनः पुनस्तिरोभवन्तीं हृदयस्य चापलात् । ग्रहीतुकामो हरिणीमिवाधिकप्लुतप्रयाणामगमन्निशाविटः ॥ १४५ ॥ प्रसीद परिहासस्य नैष कालः शुचिस्मिते । परमार्तं प्रपन्नं मां पाहीत्यनुललाप सः ॥ १४६॥ मुहुर्विमुह्यसन्मुहुरुस्थितो ब्रजम्मुहुर्विशोचन्विहसन्मुहुर्लपन् । उन्मत्तरूपोऽपि स दैवयोगतो वनं तदागात्प्रियया तया स्थितम् ॥१७॥ वसन्तलक्ष्मीनटनैकरङ्गं विमृज्य बाष्पं बहुशो वनं तत् । वियोगिनां प्राणहरं प्रपश्यन्विसिस्मिये सोऽयमचिन्तयच्च ॥१४८॥ नूनमत्र मनःकान्ता वसेन्मम विलासिनी । नान्तरङ्गं हि निर्व्याजं रुचिरेऽपि प्रवर्तते ॥ १४९ ॥ विरहिणां यमकिंकरगर्जितप्रतिममप्यधुना मधुरायते । पिकशिशोरिह कूजितमूर्जितं कुसुमिताग्ररसालविलासिनः ॥ १५०॥