पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। यतेत नित्यं सुमतिः सुखाप्तये दैवं हि साह्यं कुरुते क्रियावताम् । अचेष्टमानस्य कथं स्वयं मुखे पतेयुरन्धःकवलाः शुभेक्षणे ॥१२९॥ तदर्चय त्वं जगदेकमोहनं मनोभवं त्वं नमतामभीष्टदम् । खकीयतापं प्रभवत्यपोहितुं स एव पूषेव कृपाम्बुवृष्टिभिः ॥ १३०॥ इतीदं वचनं सख्याः संमान्य विरहातुरा । शनैः प्रातिष्ठतोद्यानं रहः पूजयितुं समरम् ॥ १३१ ।। यान्ती कथंचिदुद्यानं सह सख्या तया शनैः । पदे पदे विमुह्यन्ती विविधं विललाप सा ॥ १३२ ॥ सुखायागन्तुमीहन्ते सर्वे सुकृतिनो दिवम् । हा हन्त मम पापाया दुःखायाद्य दिवि स्थितिः ॥ १३३ ॥ मन्दमन्दमनुयासि मां सखे गन्धवाह शुभसूचनाकृते । मन्दभाग्यकशिरोमणेरहो कंधरां समुपयान्ति मेऽसवः ।। १३४ ।। कोकिल काकलिकां त्वं मा कुरु यावत्समेति नो कान्तः । दयिते समागते मे कलयेः कोलाहलं सह खीयैः ॥ १३५ ॥ अलिनि नाद्वियसे मम याचनां कलरवैर्विकलां मम चेतनाम् । कलयसे हि समेतु स मे प्रियो निगलितां कलये नलिनोदरे ॥१३६॥ रथाङ्गि पत्या सममग्रतो नटन्त्युदञ्चयस्यद्य मनोव्यथां मम । समागते मे दयितेऽपहास्यतामुपैषि शोचन्त्यनवेक्षितप्रिया ॥ १३७ ।। कः क इति राजहंसि ब्रवीषि किं त्वं न वेत्सि मम कान्तम् । योऽभूदत्रेर्नयनाज्जगदेकानन्दकः श्रीमान् ॥ १३८ ॥ मनोमयस्त्वं मनसो हरेरभूर्मनोजमित्रं जगतां मनोहरः । मनोगतं किं नु न वेत्सि कान्त मे ममैव दौर्भाग्यमहो महत्तरम् ॥१३९॥ १. ओदनप्रासा.