पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ताराशशाङ्कम् । कदा तदुरसि खपिम्यहमनङ्गलीलालसे- त्युदञ्चितमनोरथा न विदधे निमेषं च सा ॥ १२१ ।। नवकिसलयतरूपे बक्रिताङ्गं शयाना निभृतकृशशरीरा दुर्निरीक्ष्यातिपाण्डुः । नवविकसितसंध्यारञ्जिताङ्गी द्वितीया शिशिरकरकलेच प्रेक्षणीया बभूव ।। १२२ ॥ वामाङ्गविस्फुरणमप्यनुभूतपूर्वं सौभाग्यसूचकममंस्त मरुद्गदं सा । शून्यं जगत्सकलमित्यवगच्छतां किं विश्वासपात्रमसमव्यसनाकुलानाम् ।। १२३ ।। क्षणं सव्रीडेव क्षणमिव सकौतूहलभरा क्षणं चिन्ताक्रान्ता क्षणमिव च केलिप्रकुपिता । क्षणं सानन्देव ह्रियमपि च संत्यज्य मदन- ज्वराटोपभ्रान्ता गदितुमसमं प्रारभत सा ॥ १२४ ॥ परिचरता स्वयमालीजनेन शिशिरोपचारेषु । प्रोक्तो हिमकरशब्दो मूर्छालां तामबोधयच्छश्वत् ॥१२५॥ सा सरज्वरसंतापसंभ्रान्तासूनमूमुचत् । तेऽपि तादृक्शरीरस्यालाभात्तां पुनराश्रयन् ।। १२६ ॥ प्रवालतल्पे शफरीमिव स्थले परिस्फुरन्तीं प्रसवेषुणोल्बणम् । अङ्गारभङ्गेष्विव रोपितां रहः समेत प्राणसमावदत्सखी ।।१२७॥ तवेयानिति संतापं के नु निर्णेतुमीशते । ज्वलन्ति सकलाङ्गानि यस्य निर्वर्णनेऽपि नः ॥ १२८ ॥