पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला तच्चिन्तयामि हृदि लग्नमिवोग्रशल्यं तेन द्विजन्महतकेन विनीयमाना । मामश्रुकोरकितपक्ष्मदृशा निरीक्ष्य व्योम्नि व्यकल्पयत यज्जलदश्रियं सा ॥ ११४ ।। इति स्मारं स्मारं बहुविधमुदञ्चजलकणां दृशं वारं वारं दिशि दिशि विवृण्वन्विकलधीः । मुहुर्ध्यायं ध्यायं पुर इव चरन्तीं तत इतः पुनर्भ्रामं भ्रामं व्यलसदसमोन्माद इव सः ॥ ११५ ॥ तारापि नाकं प्रययौ कथंचिद्देशान्तरावासगदातुरेव । श्लथस्तनी क्षामकपोलभागा पाण्ड्युतिश्चन्द्रवियोगखिन्ना ॥ ११६ ॥ तां वेपमानां परिशुष्कवक्रां खिद्यत्तनुं निःश्वसतीं निकामम् । मार्गश्रमेणाकुलितां विदित्वा देस्रौ गुरुः पश्यतमित्युवाच ॥ ११७ ॥ नाडीषु विस्फुरति धर्म तनौ च वायु- श्चिह्नं शरीरजगदोऽयमवाच्यरीतिः । स्वैरस्थितेरुपशमोऽस्य भवेदितीय व्यालोक्य तां जगदतुर्भिषजौ सुराणाम् ॥ ११८ ।। दलति द्विधा न हृदयं भवत्यहो ज्वलति स्फुटं न वपुरेति भस्मताम् । भ्रमतीव दृग्विगलतीव चेतना जगदद्य शून्यमिति सालपन्मुहुः ११९ क्षणमिव पुरः स्थितं तं समीक्ष्यमाणापि सान्द्रमन्दाक्षा । व्यनमयदीषद्वदनं स्तनयसनं सा समीचकारेव ॥ १२०॥ कदा नु दयिताननं तदवलोकये सस्मितं कदा परिरभे च तं त्रुटितकञ्चुली संभ्रमात् । १. बृहस्पतिना. २. 'हे दस्रौ अश्विनीकुमारौ, युवां पश्यतम्' इति गुरुरु- वाचेत्यर्थः