पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ताराशशाङ्कम् । तच्चिन्तयामि मयि केलिकृतापराधे व्यर्थाशयेऽपि कपटेन निमीलिताक्षे । ईषद्विवृत्य शनकैरधरं ममाशु संदर्श्य यन्निववृते विकसन्मुखी सा ॥ १०८॥ तच्चिन्तयामि सततं शयिता समीपे- ऽप्याकाङ्क्षितार्थसफलीकरणासमर्था । अर्धोन्मिषन्नयनमाननमादरान्मे पश्यन्त्यभाद्विवशितेव यदङ्गजेन ॥ १०९ ॥ तच्चिन्तयामि मनसि स्मितदीपशोभा शोभायमानधनपुष्पकपोलरङ्गम् । उच्चिक्रविभ्रममुदञ्चितकण्ठनाद- मुल्लासकं किमपि कर्णमणीप्रवृत्तम् (?) ॥ १०७ ॥ तच्चिन्तयामि गतमोहमदुःखगन्ध- मन्तर्गतश्वसितमुज्झितनादरूपम् । तत्पूर्वमेव निमिषन्नयनच्छदार्ध- लीनालिकं किमपि कामिकुलैकसौख्यम् ॥ १११ ।। तच्चिन्तयामि सुरतान्तनितान्ततान्त- मास्यान्तरे विनिहितं मम कान्तकान्तम् । यद्विस्मृतस्मितमपि स्फुटतालुगर्भ- ताम्बूलमङ्कुरितहासमिवाननाव्जम् ।। ११२ ॥ तच्चिन्तयामि निजभर्तृसमागमोक्ति- माकर्ण्य पान्थमुखतः परुषां मृगाक्षी। निःश्वस्य दीर्घमसुमारुतमुच्चलन्तं संरुन्धतीव हृदये विदधे करं सा