पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८४ काव्यमाला । तच्चिन्तयामि रहसि खयमन्तिकं मे प्राप्तापि यन्मम कर चिबुकाग्रलोलम् । मा मेति वल्गु निगदन्त्यरुणप्रकम्प्र- हस्तादृतत्रुटितकञ्चुकनीविबन्धा ॥ १०२ ॥ तच्चिन्तयामि गुरुसाध्वसलोलनेत्र- मुद्यत्रपास्खलितचाटुनिषेधवाक्यम् । ईषत्पराकृतदुकूलमनङ्गचौर्य- विक्रीडितं किमपि भोगिकुलैकभाग्यम् ॥ १०३ ॥ तच्चिन्तयामि सदनं मम सा समाया- न्त्येकाकिनी क चलसीत्यनुयुञ्जता यत् । लीलाशुकेन मृदु लापयति स्म तारा कान्तस्य संनिधिमितीव सयुक्ति भीरुः ॥ १०४॥ तच्चिन्तयामि सततं मयि चूचुकाग्र- चञ्चत्करे पुलकधर्मजलाचिताङ्गी । यत्वाम्बरं विगलदप्यनवेक्षमाणा मञ्चे न्यषीददचिरं विनिमीलिताक्षी ॥ १०५ ।। तञ्चिन्तयामि निजपाणिनखाग्रकान्ति- संछादिते जघनधानि हृतान्तरीये। मामंशुकापनयनाय पुनश्चलाग्र- हस्तं विलोक्य हसितं दरमीलिताक्ष्या ॥ १०६ ।। तच्चिन्तयामि सततं चरितं मनखि- सायुज्यसंपदयनं वचसामभूमिम् । यत्तत्त्वमक्षिपरिपीतमनोजसारो वेत्त्येक एव वनितायितवाममूर्तिः ॥ १०७ ॥