पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ताराशशाकम् । अद्यापि मामिव परिष्वजतेऽतिवेल- कौतूहलत्रुटितकञ्चकसंधिबन्धा । काञ्चीलतां विगलितामपि नेक्षमाणा मल्ली रसालमिव सा मधुरस्मितास्या ॥ ९५ ।। अद्यापि चिकुरभारप्रचलन्मल्लीमरन्दधाराभिः । अभिषिञ्चतीव सा मां कामकलोल्लाससौरव्यसाम्राज्ये ॥ ९६ ! अद्याप्यग्रे मम विलसत्तीवानिशं सा रतान्त- श्रान्ता कान्ता लुलितकबरीभारचञ्चत्करान्ता । स्वेदार्द्रेण प्रविशदरुचा वाससोल्लासिताङ्गी सद्यो दुग्धाम्बुधिसमुदिता श्रीरिव स्वर्णगौरी ।। ९७ ।। इतः परं च किं दुःखं कामुकस्य न यत्प्रिया । लक्ष्यते नयनोन्मेषे लभ्यते करवल्पिते ॥ ९८॥ तच्चिन्तयामि परिषत्सु पराङ्गनानां सभ्रूविलासमलसैर्वलितैरपाङ्गैः । कंदर्पकार्मुकलतोत्पतितरिवास्त्रै- र्धैर्यं ममापचिनुते स्म हसन्मुखी सा ॥ ९९ ।। तच्चिन्तयामि चिबुकाकलिताङ्गुलिभ्रू- भङ्गाभिरामदरवक्रितवक्त्रमक्ष्णा । संभाव्य मां मनसि पूर्णमनोरथा सा चित्रार्पितेव यदभात्पुलकाचिताङ्गी ।। १००॥ तच्चिन्तयामि मयि चञ्चदपाङ्गमङ्ग- भङ्गोन्नमद्भुजशिरःस्खलदंशुकान्तम् । जृम्भाविरामविकलोक्त्यवदद्रुजेव कान्ते क्षणं कुरु कृपामिति सा यदालीम् ॥ १०१॥