पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८२ काव्यमाला। दिशि दिशि नलिनाक्षि लक्ष्यसे त्वं तदपि न मोदयसे मनो मदीयम् । प्रकटयति किमङ्गजः स्वमायामयि हृदयं मम मुह्यति प्रकामम् ॥८७॥ प्रियजनविरहादप्यस्ति दुःखं किमन्य- अयमपि भुवनानां नूनवद्भाति यत्र । किमु हृदयविकारश्चाक्षुषं चापि जाड्यं जगदिदमखिलं वा शून्यतामेत्यकाण्डे ॥ ८८ ॥ वपुरतिकृशमस्तु बाष्पधाराविलमधुनाक्षि तदङ्गसङ्गहीनम् । हृदयदयितया तया क्षणं वा नहि विरहस्तव खिद्यसे किमर्थम् ।। ८९ ॥ इदानीमप्यने मम विचलतीव प्रतिपदो- चलच्चेलप्रान्ता चरणकटकोदारनिनदैः । मरालानाकर्षन्त्यनुपदमुदञ्चत्कुचतटी- पटाकृष्टिक्रीडाविचलितकरा सा स्मितमुखी ।। ९० अद्याप्युल्लसतीव सा मम पुरः पाञ्चालिकेव स्थिता द्वारे केलिनिकेतनस्य कटिविन्यस्तैकहस्ताम्बुजा । अन्येनाददती करेण करतः सख्याः शनैवींटिकां पश्यन्ती मम मार्गमेव विलसन्नीलोत्पलाभेक्षणा ॥ ९१ ॥ अद्यापि मामिव समेति विलासिनी सा माद्यन्मरालमदहारिगतिमंगाक्षी । आच्छादयन्त्यनुपदं च विजृम्भमाणं वक्षोजमंशुकसमीकरणच्छलेन ॥ ९२ ।। अद्यापि प्रविलसतीव मे पुरस्तात्तन्वङ्गी धनकुचभारसंनताङ्गी । वीटी मे सकुतुकमर्पयन्त्युदारमेरास्या दरचलितप्रवालपाणिः ।। ९३ ॥ अधुनापि धुनातीव करं मम कुचस्पृशम् । करेण कङ्कणक्काणकैतवान्मेऽतिशंसता ॥ ९४ ॥