पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ताराशशाङ्कम् । राज्ञि सर्वानुकूलेऽपि बाहुल्येन मृगीदृशाम् । सापत्र्यकलहः प्रादुरासीदैकान्त्यवातुकः ॥ ७९ ॥ स्पष्टे किंचित्तदा चौर्ये कामिन्योऽपि यथापुरम् । न शेकुरभिसर्तुं तं चिन्तासंतानयन्त्रिताः ॥ ८०॥ असन्तः कं नु निन्दन्ति सन्तो निन्दन्ति कं पुनः । नूनं रन्तव्यमित्येव काश्चिन्न तममूमुचन् ॥ ८१ ॥ ताराविरहितस्यासन्नन्या नानन्दहेतवः । तस्य लक्ष्मीवियुक्तस्य राज्ञः प्रकृतयो यथा ॥ ८२ ॥ कस्य नाम सुखाय स्यादनेकरमणीकता । तस्य राज्ञोऽपि यचित्तवैक्लव्यमुदपादयत् ।। ८३ ॥ केचिच्चन्द्रं निनिन्दुः कतिचन वनिताः केऽपि शेपुस्तदानीं जेपुः केऽप्याभिचारं मनुशतमसृजन्केऽपि कृत्याः करालाः। तस्मिंस्तेजखिनीदं सकलमपि मुघाभूतमालोक्य दिष्टं जानन्तः केऽपि दुष्टं सह युवतिजनैर्निर्ययुः स्वस्वलोकान् ॥ ८॥ यातासु तासु वनितासु ततः क्रमेण लीलास्थलानि चरितानि च तानि तानि । दृष्ट्वा विचिन्त्य विमना विललाप शश्व- त्ताराविलासरसिकः स सखा स्मरस्य ॥ ८५ ॥ एतत्तदेव भवनं वनमेतदेव शैलोऽप्ययं कुसुमराशिरयं निकुञ्जः। सौधोऽप्यसौ किमु न भान्ति विशोचयन्ति सर्वेऽप्यहो विरहितं प्रियया तयाद्य ॥ ८६ ।। १. चन्द्रे. चतु ६चतु