पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८० काव्यमाला। दयिताकुचपक्षपातिता परमिन्दोरिति मन्महे वयम् । अधुनापि रथाङ्गपक्षिणौ यदयं तत्सदृशौ विबाधते ॥ ७० ॥ अमन्दानन्दश्रीकरणमुदयच्चाटुवचसो- स्तयोः किंवाप्यासीदसमशरलक्ष्मीविलसनम् । अनिर्वाच्यं कन्याजननयनकौतूहलपदं यदाहुर्घिराणामपि हृदयचापल्यजननम् ॥ ७१ ॥ किमतः परं विचित्रं यदिन्दुनिकटेऽन्धकारमुल्ललति । वल्गति रथाङ्गयुग्मं कुवलयमपि मीलितुं यतते ॥ ७२ ॥ नीलोत्पले वा भ्रमरी तिरो भवेत्पाथोरुहे वापि मरालशावकः । यदेतयोर्मीलनमेकदा भवत्यदस्तु मायां मदनस्य मन्महे ॥ ७३ ॥ को नाम रतिसौख्यं तद्वर्णयेन्मतिमानपि । भवन्ति यत्रोल्लासाय नखदन्तक्षतान्यपि ॥ ७४ ॥ क्वचिद्रम्ये हर्म्ये कचिदपि नदीकूलपुलिने क्वचिन्मञ्जौ कुञ्जे कचिदुपवने मन्दपवने । क्वचिल्लीलाशैले सरसतरसालेऽपि स तया समं सीमन्तिन्या व्यहरदसमश्रीरहरहः ॥ ७५ ॥ तारानुगाः काश्चिदमर्त्यमर्त्य भोगिस्त्रियो भोगरतान्तरङ्गाः। संगत्य ताभी रमते स्म नित्यं कृष्णो यथा गोकुलसुन्दरीभिः ॥ ७६ ॥ योगमार्गप्रवृत्तस्य सुषम्णा नाडिकास्विव । तासु मुख्याभवचारा तस्य भोगरतात्मनः ॥ ७७ ॥ तत्पतीनुपचरन्निव यात श्वः परश्व इति वारयति स्म । स्वां पुरीं जिगमिषून्मधुरोक्त्या सोऽयमङ्गजविलासरतात्मा ॥ ७८ ॥